Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः
२२ नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः। उपोषणं नवम्यान्तु दशम्यामेव पारणम् ॥
इत्यादि विष्णुपरायणैरिति तु विष्णुपरायणत्वेन भवितव्यमित्युपदेशपरम् , न तु कर्तृविशेषणम् , विधिद्वयकल्पनापत्तेः । एतेन वैष्णवैर्दशमीविद्धोपोध्या तदतिरिक्तरष्टमीविद्धति व्यवस्था हेयैव विधिद्वयकल्पनायामतिगौरवात् | एवञ्च सर्वैरेवौदयिकी ग्राह्या पारणन्तु दशम्यामेवेति सिद्धम् । मध्याह्नयोगः प्रशंसार्थः महापुण्यजनकत्वेन स्वीकृतत्वात् । पुनर्वसुयोगवद् आश्विनकृष्णानवम्यामाचारपरिप्राप्तमातृश्राद्धे सङ्गवात्मकमुहूर्तत्रयान्तर्गतपूर्वाह्नसम्बन्धिनी नवमी ग्राह्या । पूर्वाह मातृकं श्राद्धमित्यादिब्रह्मपुराणात् । तत्र प्रातःपदस्य पृथगुपादानात् पूर्वाह्नपदस्य तादृशकालपरत्वं सामान्यविशेषन्यायात् ।
(१०) अथ दशमी-द्वैधः सा च पूर्वस्मिन् परस्मिन् वा दिने विहितकालव्यापिनी ग्राह्या । तथाहिपक्षधरतस्मृतिः-संपूर्णा दशमी कार्या परया पूर्षयापि वा । युक्ता न दूषिता यस्मादिति सा सर्वतोमुखी ॥ तथा-दशम्येकादशीविद्धा कर्तव्या फलकाक्षिभिः । दशमी चैव कर्तव्या सदुर्गा द्विजसत्तमा ।। इति ।
उभयदिने विहितकालव्याप्तौ परा ग्राह्या प्रधानप्रातःकालव्याप्त्यनुरोधात् । आश्विनशुक्ला विजयदशमी प्रातःकालिकी ग्राह्या । यदाह
नन्दिकेश्वरः-प्रातरावाहयेद् देवीं प्रातरेव प्रवेशयेत् । प्रातः प्रातश्च सम्पूज्य प्रातरेव विसर्जयेत् ।। तथा-भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः । पूवाह एव कुर्वीत न तत्र तिथियुग्मता ।। नारदः-इषस्य दशमी शुक्लां पूर्वविद्धान कारयेत् । श्रवणेनापि संयुक्त राज्ञां पट्टाभिषेचने ॥
राजन् दृश्यते दशमीतिथिः । आश्विने मासि शुक्लान्तु विजयां तां विदुर्बुधाः॥ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42