Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 30
________________ तिथिनिर्णयः एकादशी दशाविद्धा परतो न च र्द्धते । गृहिभिर्यतिभिश्चैव सैवोपोष्या महातिथिः ॥ इति स्मृत्यन्तरैकवाक्यतानुरोधाच्च । एकादशीक्षयस्थले दशमीविठ्ठकादश्युपोषणीशास्त्रार्थः । दशम्यविद्धकादशीलाभे सत्येव दशमीविद्धैकादशीपरित्यागे निषेधवचनानां तात्पर्यावधारणादित्याहुः । न चेदृशस्थले 'एकादशीमुपवसेद् द्वादशीमथवा पुनः । विमिश्रा वा प्रकुर्वीत न दशम्या युतां क्वचित् ।।' इति स्मृत्या द्वादश्युपोषणमेवास्त्विति चेत् सत्यम् । भवेदेवं यदीदं गौडीयवचनं प्रमाणं स्यात्तदेव न । यदाहुः-वस्तुतस्तु वचनमेवेदमनाकरं राजाद्यलिखितत्वादिति कृत्यमहार्णवे वाचस्पतिचरणाः । ननु यत्र च द्वादशीक्षयस्तत्र द्वादश्यां पारणानुरोधादशमीविद्धैकादश्युपवासोऽस्तु इति चेन्न अङ्गे पारणादौ द्वादशीवाधस्याकिञ्चित्करत्वात् । कलाप्येकादशी यत्र परस्ता, द्वादशी न चेत् । पुण्यं क्रतुशतस्योक्तं त्रयोदश्यां तु पारणे ॥ इति स्मृतिकौमुदीधृतस्मृतेः । ___एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिस्पर्शात्तदहोरात्रं पुण्यं साहनिकं भवेत् ।। इति स्मृत्यन्तराच्च तस्यैव बहुपुण्यजनकत्वादित्यलं बहुना । (१२) अथ द्वादशी-वैधः सा चोपवासादिषु सति सम्भवे एकादशीयुता ग्राह्या रुद्रेण द्वादशीयुक्तेति युग्मवाक्यात् । कामविद्धो भवे. द्विष्णुरिति त्रयोदशीविद्धाया निषेधश्रवणाच्च । आ-भा-का-सितपक्षेषु मैत्रश्रवणरेवती । द्वादशीबुधवारेण हरेर्वासर उच्यते ॥ मैत्रमनुराधा । अत्र मासनक्षत्रयोः क्रमिकान्वयः । बुधवारेणेति सर्वत्राभिसंबध्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42