Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः
सप्तमीशल्यसंयुक्तां मोहादज्ञानतोपि वा । महाष्टमीं प्रकुर्वाणो नरकं प्रतिपद्यते ॥
अत एव दिनकृत्ये उभयस्मिन् दिने तत्तिथिला भे नवमीयुताष्टमी माह्या । रात्रिकृत्ये तु रात्रिद्वये तल्लाभे एवमिति वाचस्पतिचरणाः ।
( ९ ) अथ नवमी-द्वैधः
२१
नवमी पूर्वविद्धा ग्राह्या । यदाह,
ब्रह्मवैवर्ते - अष्टम्या नवमीविद्धा कर्तव्या फलकाङ्क्षिभिः । न कुर्यान्नवमीं तात दशम्या तु कदाचन ॥ इति । पामेऽपि - अष्टमी नवमीयुक्ता • नवमी चाष्टमीयुता । इति ।
स्मृतिः -- कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥ इति । भविष्ये- अश्वयुक् शुक्लपक्षे तु अष्टमीमूलसंयुता । सा महानवमी नाम त्रैलोक्येपि सुदुर्लभा ॥ इति । दुर्गापूजासु मूलनक्षत्रसंयुता महती कीर्तिता । तस्यां दुर्गामहिषमर्दिनीत्यादि - स्मृतेश्च | नवमी पूर्वाह्वव्यापिनी चेदष्ट
त्रिशूलिनीपूजादौ प्राह्मा ! प्रभूततरबलिदाने तु-
देवीपुराणम् - अश्वयुक् शुक्ल नवमी मुहूर्त्त वा कला यदि । सा तिथिः सकला ज्ञेया लक्ष्मीविद्याजयार्थिभिः ॥ सौर- सूर्योदये परा रिक्ता पूर्णा स्यादपरा यदि । बलिदानं प्रकर्तव्यं तत्र देशे शुभं भवेत् ॥ इति । बलिदानं दशासु चेति निषेधो नवम्ययुक्तासु वेदितव्यम् । तथा "बलिदाने कृतेऽष्टम्यां पुत्रभ्रंशो भवेन्नृपे "ति निषेधोऽपि प्रभूततरबलिदाने एव । पूजाङ्गबलिदानमष्टम्यां भवत्येवानवकाशत्वात् ।
चैत्रशुक्ला तु नवमी पुनर्वसुयुता यदि । सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42