Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः
अत्र तिथिनक्षत्रयोर्योगे मुख्यः कालः अतथात्वे तिथिह्या । तथाहि विद्यापतिधृता यमस्मृतिः
तिथिः शरीरं देवानां तिथौ नक्षत्रमाश्रितम् । तस्मात्तिथि प्रशंसन्ति नक्षत्रं न तिथि विना ।। अन्यच्च-तिथिनक्षत्रयोर्योगे द्वयोरेवानुपालनम् । योगाभावे तिथिाह्या देव्याः पूजनकर्मणि ॥ इति
तदियं व्यवस्था । सप्तम्यामुदयगामिन्यां प्रातःकाले पत्रिकाप्रवेशस्तदव्यवहितपूर्वसायाह्ने बिल्वाभिमन्त्रणम् । तत्र षष्ठीतिथेयेष्ठानक्षत्रस्य च सद्भावः प्रशस्तः नात्यावश्यक इति !
(७) अथ सप्तमी-द्वैधः सप्तमी तु षष्ठीयुता ग्राह्या | षण्मुन्योरिति युग्मात् । “सप्तमी नाष्टमीयुक्ता न सप्तम्यायुताष्टमीति”स्मृतेश्च । “षष्ठयष्टमी"त्यादि "नागवि "त्यादि स्मृतिभ्यां पूर्वोक्ताभ्याञ्च । तथाहिभविष्ये--षष्ठीसमेता कर्तव्या सप्तमी नाष्टमीयुता । पतङ्गोपासनायेह षष्ठयामाहुरुपोषणम् ।।
____ एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः । आराधनाय द्वादश्यां विष्णोर्यद्वदियन्तथा ।। इति । पत्रिकाप्रवेशे तु परयुता ग्राह्या । 'युगाद्या' इत्यादि तृतीयाप्रकरणोक्त देवीपुराणात् ।। तथाहिज्योतिःशास्त्रे-पूर्वाह्न नवपत्रिका शुभकरी सर्वाथसिद्धिप्रदा, आरोग्यं धनदा करोति विजयं चण्डीप्रवेशे शुभा ।।
मध्याह्ने जनपीडनक्षयकरी सङ्नामघोरावहा, सायाह्ने वधबन्धनादिकलहं सर्पक्षतं सर्वदा ।। सप्तम्यामस्तगायां यदि विशति गृहं पत्रिका श्रीफलाद्या राज्ञः सप्ताङ्गराज्यं जनसुखमखिलं हन्ति मूलानुरोधात् । तस्मात् सूर्योदयस्थां नरपतिशुभदा सप्तमी प्राप्य देवीम् भूपालो वेशयेत्तां सकलजनहितां राक्षसक्षं विहाय ॥ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42