Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः
भाद्रशुक्ल षष्ठीविषये स्कन्दपुराणम् -
षष्ठी च सप्तमी चैव वारश्चेदंशुमालिनः । योगोयं युग्मको नाम सूर्यकोटिग्रहैः समः ॥ ganada कार्त्तिकशुक्ला रविषष्ठी (प्रतिहारषष्ठी) व्याख्याता । तथाहि
-
षष्ठयामुपोष्य विधिवत् सप्तम्यामर्कपूजयेत् । सद्रव्यभागरुक् चैव सम्प्राप्नोतीप्सितं फलम् ॥ अर्केत्यत्रार्षो विभक्तिलोपः । उपोष्येति क्त्वाश्रुतेरर्कपूजयेदिति विधेव अर्घादिना पूजनस्यैव प्राधान्यावगमात्, तस्य चोत्तरत्र सप्रम्यां प्रातरेव विधानात् । पूर्वदिने सायमर्घादिना पूजने षष्ठी सप्तमी वा प्राह्येति न नियमः । प्रधानभूतोत्तरत्रार्घदानस्य तदङ्गोपवासस्य वाऽङ्गतयैव तदाचरणात् । आश्विनशुक्ला षष्ठी बिल्वाभिमन्त्रणे सायंन्तनी ग्राह्या । षष्ठयां बिल्वतरौ बोधं सायं सन्ध्यासु कारयेत् । इति भविष्यात् । अहमध्याश्विने षष्ठयां सायाह्ने बोधयाम्यतः । इति बोधन मन्त्रार्थानुरोधाच्च । सन्ध्यामाह -
वराहमिहिरः - अर्धादस्तमनात् सन्ध्या व्यक्तीभूता न तारका यावत् । इति ।
तिथितत्वेपि - बोधयेद्विल्वशाखायां षष्ठयां देवीं फलेषु च । सप्तम्यां बिल्वशाखान्तामाहृत्य प्रतिपूजयेत् ॥ ब्रह्माण्डे - पत्रीप्रवेशात् पूर्वेद्युः सायाह्ने बिन्ध्यवासिनीम् । चण्डीमामन्त्रयेद् विद्वान्नात्र षष्ठी पुरस्क्रिया ॥ बिल्ववासिनीमिति पाठो भविष्ये । पठन्ति च
T
Jain Education International
सायं षष्ठयां तु कर्त्तव्यं पार्वत्या अधिवासनम् । षष्ठयभावेंपि कर्तव्यं सप्तम्यामपि मानद । देवीपुराणे - ज्येष्ठा नक्षत्रयुक्तायां षष्ठयां बिल्वाभिमन्त्रणम् । सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवेशनम् ॥ पूर्वाषाढयुताष्टम्यां पूजाहोमाद्युपोषणम् । उत्तरेण नवम्यां तु बलिभिः पूजयेच्छिवाम् ॥ श्रवणेन दशम्यां तु प्रणिपत्य विसर्जयेत् ॥
१५
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42