Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 22
________________ तिथिनिर्णयः राक्षसक्षं मूलम् , मूलानुरोधान्न प्रातःकालातिक्रमः किन्तु मूलमनादृत्य प्रातरेव प्रवेशयेदित्यर्थः । (८) अथाष्टमी-द्वैध: ब्रह्मवैवर्ते-नाष्टमी सप्तमीयुक्ता सप्तमी नाष्टमीयुता । नवम्या सह कार्या स्यादष्टमी सर्वदा बुधैः॥ तथा शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी। पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥ उपवासेषु सर्वेषु एष धर्मः सनातनः॥ तथा-अष्टमी नवमीविद्धा नवम्या चाष्टमी तथा । अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ।। तथा-कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्वविद्धव कर्तव्या परविद्धा न कुत्रचित् ॥ तथा-कृष्णपक्षे सदा कार्या अप्तम्या सहिताष्मी ॥ विष्णुरहस्ये-कार्या विद्धापि सप्तम्या रोहिणीसहिताष्टमी । तत्रोपवासं कुर्वीत तिथिभान्ते च पारणम् ।। तथा-जन्माष्टमी रोहिणी च शिवरात्रिचतुर्दशी । पूर्वविद्धा प्रकर्तव्या तिथिभान्ते च पारणम् ।। तथा-श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्बलेदिनम् ।। एवमादिभिर्नानामुनिवचनैरष्टमी कृष्णपक्षे सप्तमीयुता ग्राह्या । शुक्ला तु दूर्वाष्टम्यतिरिक्ता नवमीयुता ग्राह्येति । कृष्णाष्टमीव्रतं चतुर्दा भिद्यते इति सिद्धवल्लिखन्ति । वाचस्पत्ये द्वैतनिर्णये तदेव स पल्लवीकृत्यात्र प्रदर्श्यते । तथाहि-- रोहिणी च यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम | जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥ इति भविष्यपुराणीयं रोहिणीयोगपुरस्कारेण द्वादशमासीयासु अष्टमीषु जयन्तीव्रतम् । तत्र विहितस्य गोविन्दार्चनस्य प्राधान्यात् पूर्वाहप्राप्तरोहिण्यष्टमीयोग एवेत्येकम् ॥ १॥ रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी । अर्धरात्रे तु योगोऽयं तारापत्युदये सति ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42