SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ तिथिनिर्णयः भाद्रशुक्ल षष्ठीविषये स्कन्दपुराणम् - षष्ठी च सप्तमी चैव वारश्चेदंशुमालिनः । योगोयं युग्मको नाम सूर्यकोटिग्रहैः समः ॥ ganada कार्त्तिकशुक्ला रविषष्ठी (प्रतिहारषष्ठी) व्याख्याता । तथाहि - षष्ठयामुपोष्य विधिवत् सप्तम्यामर्कपूजयेत् । सद्रव्यभागरुक् चैव सम्प्राप्नोतीप्सितं फलम् ॥ अर्केत्यत्रार्षो विभक्तिलोपः । उपोष्येति क्त्वाश्रुतेरर्कपूजयेदिति विधेव अर्घादिना पूजनस्यैव प्राधान्यावगमात्, तस्य चोत्तरत्र सप्रम्यां प्रातरेव विधानात् । पूर्वदिने सायमर्घादिना पूजने षष्ठी सप्तमी वा प्राह्येति न नियमः । प्रधानभूतोत्तरत्रार्घदानस्य तदङ्गोपवासस्य वाऽङ्गतयैव तदाचरणात् । आश्विनशुक्ला षष्ठी बिल्वाभिमन्त्रणे सायंन्तनी ग्राह्या । षष्ठयां बिल्वतरौ बोधं सायं सन्ध्यासु कारयेत् । इति भविष्यात् । अहमध्याश्विने षष्ठयां सायाह्ने बोधयाम्यतः । इति बोधन मन्त्रार्थानुरोधाच्च । सन्ध्यामाह - वराहमिहिरः - अर्धादस्तमनात् सन्ध्या व्यक्तीभूता न तारका यावत् । इति । तिथितत्वेपि - बोधयेद्विल्वशाखायां षष्ठयां देवीं फलेषु च । सप्तम्यां बिल्वशाखान्तामाहृत्य प्रतिपूजयेत् ॥ ब्रह्माण्डे - पत्रीप्रवेशात् पूर्वेद्युः सायाह्ने बिन्ध्यवासिनीम् । चण्डीमामन्त्रयेद् विद्वान्नात्र षष्ठी पुरस्क्रिया ॥ बिल्ववासिनीमिति पाठो भविष्ये । पठन्ति च T Jain Education International सायं षष्ठयां तु कर्त्तव्यं पार्वत्या अधिवासनम् । षष्ठयभावेंपि कर्तव्यं सप्तम्यामपि मानद । देवीपुराणे - ज्येष्ठा नक्षत्रयुक्तायां षष्ठयां बिल्वाभिमन्त्रणम् । सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवेशनम् ॥ पूर्वाषाढयुताष्टम्यां पूजाहोमाद्युपोषणम् । उत्तरेण नवम्यां तु बलिभिः पूजयेच्छिवाम् ॥ श्रवणेन दशम्यां तु प्रणिपत्य विसर्जयेत् ॥ १५ For Private & Personal Use Only www.jainelibrary.org
SR No.001772
Book TitleTithinirnay
Original Sutra AuthorN/A
AuthorRamchandra Jha
PublisherChaukhamba Vidyabhavan
Publication Year1993
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari, Tithi, & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy