________________
१४
तिथिनिर्णयः एतद्वचनस्य पूर्वार्धमदृष्ट्वा पराध स्कन्दोपवासपरत्वेन व्याचख्यौ । अयुक्तेति पदच्छेदं कृत्वा पूर्वोक्तवाक्यैरेकवाक्यताश्चाह । तत् सर्व पूर्वार्धानवलोकनप्रयुक्तमेवेति बोध्यम् ।
समयप्रदीपे-सुप्ते जनार्दने कृष्णपञ्चम्यां भवनाङ्गणे । पूजयेन्मनसादेवी स्नुहीविटपसंस्थिताम् ॥ स्नुही = 'धाविनाम्ना लोके प्रसिद्धा। तथा-पश्चमी नागपूजायां कार्या षष्ठीसमन्विता । तस्यां तु तुषिता नागा इतराः सचतुर्थिकाः॥ इति स्मृतिरुभयपक्षसाधारणनागपञ्चमी परयुतामनुगृह्णाति ।
स्मृतिसारे-श्रावणे पञ्चमी शुक्ला सा प्रोक्ता नागपञ्चमी । तां परित्यज्य पञ्चम्यश्चतुर्थीसहिता मताः॥ भाद्रशुक्ला ऋषिपञ्चमी सापि परैव । “शुक्ला परयुता ग्राह्या भाद्रे तु ऋषिपञ्चमी"ति स्मृतेः।
(६) अथ षष्ठी-द्वैधः षष्ठी तु स्कन्दव्रते पूर्वयुता ग्राह्या, तथाहि
__ कृष्णाष्टमी स्कन्दषष्टी शिवरात्रिचतुर्दशी । एताः पूर्वयुता ग्राह्यास्तिथ्यन्ते पारणं चरेत् ॥ तदतिरिक्ताः परा ग्राह्याः । षण्मुन्योरिति युग्मवाक्यात् । एकादश्यष्टमीषष्ठीत्यादिपूर्वोक्तस्मृतेश्च ।। पक्षधरीये स्मृतिसमुच्चये--षष्ठयष्टमी अमावस्या कृष्णपक्षे चतुर्दशी । एताः परयुता ग्राह्याः पराः पूर्वेण संयुताः॥ नागविद्धा तु या षष्ठी रुद्रविद्धो दिवाकरः । कामविद्धो भवेद् ।
स्ते तु वासराः॥ तथा-कलाकाष्ठानिमेषोपि यदि स्यादपरेऽहनि | षष्ठथाः कथचिद्विप्रेन्द्र सैवोपोष्या महातिथिः॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org