________________
तिथिनिर्णयः
ब्रह्मपुराणे-नारायणोभिशप्तस्तु सुधाकरमरीचिषु । स्थितश्चतुर्थ्यामद्यापि मनुष्याणां पतिश्च सः॥ अभिशप्तः परीवादविषयो जातः ।
अतश्चतुा चन्द्रं तु प्रमादाद्वीक्ष्य संयतः । पठेद्वात्रेयिकावाक्यं प्राङ्मुखो वाप्युदङ्मुखः ॥
तथा-"चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचने"ति । अत्र शब्दक्रमाच्चतुर्युदितस्य पञ्चम्यामपि दर्शने दोषो लभ्यते । “चतुर्थ्या नेक्षितव्यः” इति मुनिभिरुदितः = कथितः, इति व्याख्याने चतुर्थ्यामेव दर्शनं दोषायेति लभ्यते । अत्र पूर्वोक्तवचनसामञ्जस्यमधिकम् । उभयदिने तत्कालव्याप्तौ परैव त्रिसन्ध्यव्यापित्वात् , युग्मनियमाच्च । तथाहि विष्णुधर्मोत्तरेऽपि-एकादशी तथा षष्ठी अमावास्या चतुथिका । उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः ॥
यदि पूर्वदिने चन्द्रोदयकालमतिक्रम्य प्रवृत्ता चतुर्थी नोत्तरदिने चन्द्रोदयकालं व्याप्नुयात्तत्र पूर्वैव । चतुर्थ्य धिकरणकचन्द्रदर्शनस्य दोषाधायकत्वेनाविशेषात् । यदि चतुर्थीचन्द्रयोरुभयदिने सामानाधिकरण्याभावस्तदा भूपालमतमेवानुसरणीयमित्यलम् |
(५) अथ पञ्चमी-वैधः पञ्चमी पूर्वयुता ग्राह्या, स्थाहि ब्रह्मपुराणम्-पञ्चमी च प्रकर्तव्या चतुर्थीसहिता प्रभो । हारीतादयोऽपि-चतुर्थीसंयुता कार्या पञ्चमी परया न तु ।। अन्यच्च-एकादशी तथा षष्ठी अमावास्या चतुर्थिका | उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः ॥ नागपञ्चमी तु परैव, यदाह ब्रह्मवैवर्ते
पूर्वाहे कृष्णपक्षे तु नागतोषकरी तिथिः । पञ्चमी तु प्रकर्तव्या षष्ठथा युक्ता तु नारद ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org