SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ तिथिनिर्णय: ( ४ ) चतुर्थी - द्वैधः बृहस्पतिः---चतुर्थीगणनाथस्य मातृविद्धा प्रशस्यते । मध्याह्वव्यापिनी चेत् स्यात् परतश्च परेऽहनि ।। मातृविद्धा = तृतीयाविद्धा । तथा चतुर्थी च तृतीयायां महापुण्यफलप्रदा । कर्तव्या प्रतिभिर्वत्स गणनाथसुतोषिणी ॥ गणनाथं सुतोषयति तच्छीलेत्यर्थः । तथा कृष्णाष्टमी चतुर्थी च सावित्री वटपैतृकी । शुक्लत्रयोदशी रम्भा नोपोष्याः परसंयुताः ॥ पुराणसमुच्चयेपि — गौरी चतुर्थी वटधेनुपूजा दुर्गार्चनं दुर्भरहोलिका च । वत्सस्य पूजा शिवरात्रिरेताः परान्विता घ्नन्ति नृपं च राष्ट्रम् ॥ तथा - मातृविद्धा प्रशस्ता स्याच्चतुर्थी गणनायके । मध्याह्नात् परतश्चेत् स्यान्नागविद्धा प्रशस्यते ॥ तथा - भाद्रशुक्लचतुर्थी या भौमेनार्केण वा युता । महती सात्र विघ्नेशमचित्वेष्टं लभेन्नरः ॥ स्कन्दपुराणे – माघशुक्लचतुर्थ्यान्तु नक्तत्रतपरायणः । ये त्वां दुण्डेर्चयिष्यन्ति तेऽच्र्याः स्युरसुरद्रुहाम् ।। ब्रह्मवैवर्त्ते - गणेश - गौरी - बहुलाव्यतिरिक्ताः प्रकीर्तिताः । चतुर्भ्यः पञ्चमीविद्धा देवतान्तरयोगतः ॥ तदियं व्यवस्था एतावत्कार्येषु तृतीयायुता चतुर्थी मध्याह्रव्यापिनी ग्राह्या, माघशुक्लचतुर्थ्यां नक्तसम्बन्धादरोऽधिकः । कृष्णचतुर्थ्यां सङ्कष्टचतुर्थीव्रते चन्द्रोदयकालसम्बन्धादर इति । भाद्रशुक्लचतुर्थ्यां चन्द्रादर्शने - मार्कण्डेय पुराणम् -सिंहादित्ये शुक्लपक्षे चतुर्थ्यां चन्दद्रर्शनम् । मिथ्याभिशापं कुरुते तस्मात् पश्येन्न तं तदा ।। सहादित्ये इत्युपलक्षणम् | 1 Jain Education International १२ For Private & Personal Use Only www.jainelibrary.org
SR No.001772
Book TitleTithinirnay
Original Sutra AuthorN/A
AuthorRamchandra Jha
PublisherChaukhamba Vidyabhavan
Publication Year1993
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari, Tithi, & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy