________________
तिथिनिर्णयः
वैशाखे शुक्लपक्षे तु तृतीयारोहिणीयुता । दुर्लभा बुधवारेण सोमेन च विशेषतः ॥ नारदः--रोहिणी बुधयुक्ताश्च पूर्वविद्धां विवर्जयेत् । भक्त्या कृतापि मान्धातर्हन्ति पुण्यं पुराकृतम् ॥
गौरीविनायकोपेता रोहिणी बुधसंयुता । विनापि रोहिणीयोगात पुण्यकोटिफलप्रदा॥ भविष्ये-भद्रे कुरु प्रयत्नेन रम्भाख्यं व्रतमुत्तमम् । ज्येष्ठशुक्लतृतीयायां स्नात्वा नियमतत्परा ॥ इति रम्भाव्रते द्वितीयायुतव तृतीया ग्राह्या (तथाहि)स्मृतिः-रम्भाख्यां वर्जयित्वा तु तृतीयां मुनिसत्तम । अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ।। यत्तु-तृतीया तु न कर्तव्या द्वितीयासहिता विभो । द्वितीयासहितां तां तु या करोति विमोहिता ।। सा याति नरकं घोरं कालसूत्रं भयङ्करम् । द्वितीयाशेषसंयुक्तां या करोति नराधमा ।
सा वैधव्यमवाप्नोति प्रवदन्ति मनीषिणः ॥ इति ब्रह्मवैवर्तवचनम् । तत्तु रम्भेतरतृतीयापरम् । तथा हि
मुहूर्तमानसत्वेपि दिने गौरीव्रतं परे । शुद्धाधिकायामप्येवं गणयोगप्रशंसनात् ॥ चतुर्थीसहिता या तु सा तृतीया फलप्रदा | अवैधव्यकरी स्त्रीणां पुत्रपौत्रादिवद्धिनी ।।
आद्या मधुश्रावणिका कन्जली हरितालिका | चतुर्थीमिश्रिता स्त्रीभिर्दिवा नक्तं विधीयते ॥ दिवोदासीये-तृतीयानभसः शुक्ला मधुश्रावणिका स्मृता। भाद्रस्य कज्जली कृष्णा शुक्ला च हरितालिका ।
एवञ्च-एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी । अमावास्या तृतीया च ता उपोष्याः परान्विताः॥ इति विष्णुधर्मोत्तरीयं वचनं रम्भातृतीयातिरिक्ततृतीयासु योज्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org