Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan

Previous | Next

Page 10
________________ तिथिलाभ कपालाधिकरणन्यायाद्वयवस्था युक्तं चैतदीदृश्यात्रिस्पृशाया एव सम्भवात् । तत्र च सर्व तिथिमलं त्याज्य तिथिनिर्णयः मन्यत्र हरिवासरादिति स्मृत्यन्तर संवादात् । अत एव उपवासत्रते तिथ्यन्तिमभागयुताहोरात्रस्यैव प्राह्यतया सप्तममुपवसेदिति विधिबोधितोपवासस्य न लोपपत्तिर्न वा आवृत्यापत्तिः सप्तमीपदस्य सप्तमीच रमभागयुताहोरात्रपरत्वात् । न चाहोरात्र व्यापकोपवासव्रते अधिकव्याप्त्यैव तिथिरादर्तव्या न तु मुहूर्तादिव्याप्त्येति वाच्यम्, आरम्भमात्रे विहित कालापेक्षणात् न तूत्तरत्रापि । अत एवाभ्युदितेऽष्टौ विहितकाले प्रारब्धं कर्म कालान्तरेपि समाप्यत इत्युक्तम् । तिथेः प्रान्त्यमुपोष्यं स्यादिति नारदीयाच्च । पठन्ति च - 'सातिथिः सकला - ज्ञेया यस्यामुदयते रविः । यथा सम्पूर्णा तिथिरुपवासादिकर्माङ्गं तथा असंपूर्णाप्युदयगामिनीति तदर्थः । एतदेवाहुः - गौढाः - व्रतोपवासनियमे घटिकैकाऽपि या भवेत् । सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्निकी ॥ राजमार्त्तण्डेऽपि — व्रतोपवासस्नानादौ घटिकैका यदा भवेत् । उदये सा तिथिग्रह्या श्राद्धादावस्तगामिनी ॥ बौधायनोपि-उदये तूपवासस्य नक्तस्यास्तमने तिथिः । मध्याह्नाव्यापिनी ग्राह्या एकभुक्तव्रते तिथिः ॥ गृह्य परिशिष्टे - सा तिथिस्तदहोरात्रं यस्यामभ्युदितो रविः । तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् ॥ एतद्वयवस्थाद्वयमप्याकूतं हरिनाथ श्रीदत्त वाचस्पत्यादिनिबन्धेषु | इति सामान्यपरिभाषा । अथ कालविभागः अरुणोदयकालमाह ब्रह्मवैवर्त्ते - चतस्रो घटिकाः प्रातररुणोदय उच्यते । यतीनां स्नानकालोयं गङ्गाम्भः सदृशः स्मृतः ॥ अत्र घटिका दण्डरूपा ग्राह्या यथा त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम् । नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञके ॥ मत्स्यपुराणे - प्रातः कालो मुहूर्तांस्त्रीन् सङ्गवस्तावदेव हि । मध्याह्नस्त्रिमुहूर्तः स्यादपराह्नस्ततः परः ॥ For Private & Personal Use Only Jain Education International ५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42