Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः "अशून्यशयन" व्रते प्रतिपद्विद्धा ग्राह्या | तु तथाहिस्मृतिः-कृष्णाष्टमी बृहत्तल्पा सावित्री वटपैतृकी | कामत्रयोदशी रम्भा नोपोष्याः परसंयुताः॥
सति सम्भवे पूर्वाहनक्तोभयव्यापिनी ग्राह्या । गोविन्दार्चनगोदानादीनां नियतपूर्वाहकृत्यानां क्षारलवणवर्जितनक्तभोजनस्य च मत्स्यपुराणेऽभिधानात् । कार्तिकशुक्लद्वितीयाप्रसंगे आह-- स्कन्दपुराणे-कातिके शुक्लपक्षे तु द्वितीयायां युधिष्ठिर । यमो यमुनया पूर्व भोजितः स्वगृहेऽचिंतः॥
अतो यमद्वितीया सा त्रिषु लोकेषु विश्रुता । तस्यां निजगृहे विप्र भोक्तव्यन्न ततो नरैः ॥
स्नेहेन भगिनीहस्ताद् भोक्तव्यं पुष्टिवर्द्धनम् । वस्त्रालङ्करणादीनि ताभ्यो देयानि यत्नतः।। ब्रह्माण्डे-या तु भोजयते नारी भ्रातरं युग्मके तिथौ । अर्चयेच्चापि ताम्बूलेन सा वैधव्यमाप्नुयात् ।।
भ्रातुरायुःक्षयो राजन्न भवेत् तत्र कहिंचित् । युग्मके = द्वितीयायाम् । सा च प्रतिपद्युता ग्राह्येति निर्णयामृतः । भोजनकालिकत्वेन मध्याह्नव्यापिनी प्राति हेमादिः । सारसंग्रहे उमापतिस्तु अर्द्धप्रहरोपरि भोजनकालस्तत्कालव्यापिनी ग्राह्या, उभयदिने तत्प्राप्तौ परैव युग्मनिगमादित्याह अनुकूलञ्चात्र भूपालमतम् । एकादश्यष्टमीत्यादि पैठीनसिवचनश्च । व्यवहारश्च यथा स्वकुलाचारमुभयथापि शिष्टानाम् ।
(३) तृतीया-द्वैधः वैशाखशुक्ला तृतीया तु युगादित्वादुदयगामिनी ग्राह्या तथाहि
देवीपुराणम्-युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया । सूर्योदयमपेक्षन्ते न तत्र तिथियुग्मता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42