Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः अग्रयां प्रथमाम् । तथा-नन्दायां दर्शनं रक्षा बलिदानं दशासु च | भद्रायां गोकुलक्रीडा देशनाशाय जायते ।।
एवमादिवचनानि परदिने चन्द्रदर्शनसम्भावनायां पूर्वविद्धास्तावकानि । यदाह-राज्योपार्जकठक्कुरानुगृहीतपुराणसमुच्चये-प्रतिपत्तु त्रियामा स्यान्मैत्रः बुधवासरे । तदिने पूर्वयामे तु गोपूजा परमा शुभा ॥ मैत्रमनुराधा । बुधवारस्य सौम्यदिनमात्रोपलक्षकता । तथा
गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः । सोमो राजा पशून हन्ति सुरभी पूजकांस्तथा ।। चन्द्रदर्शनसंभावनामाह, शातातपः
द्वितीया त्रिमुहूर्तावै प्रतिपद् या पराह्निकी | अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात् । मुहूर्तो घटिकाद्वयमित्यभिधानात् । घटिकाषट्कस्य किश्चिन्यूनत्वेपि । यामोपलक्षकता पुराणसमुच्चयेन सहैकवाक्यतानुरोधात् । मिथिलेशशुभङ्करचरणा अपि द्वितीयायात्रिमुहूर्तव्यापित्वे चन्द्रदर्शनसम्भावनामाहुः, यामा ान्यूनव्याप्ताविति यत्र कचिल्लभ्यते । तदुत्कटकोटिकाशङ्कानिरासार्थमेव । तथा
पापाहे च विशाखायां न कुर्यात् पूजनं गवाम् । राजमार्तण्डे-विशाखायाममावस्या विशाखाप्रतिपद्युता | आयुः पुत्रं धनं हन्ति यः कुर्यात् सुखरात्रिकाम् ॥ गोनीराजने शुक्रास्तादिदोषपरिहारं कुर्वन्ति बहवः ।
(२) द्वितीया-द्वैधः द्वितीया तृतीयायुता ग्राह्या, युग्मनिगमात् तथाहिपैठीनसिः-एकादश्यष्टमी षष्ठी द्वितीया च चतुर्दशी । त्रयोदश्यप्यमावास्या उपोष्याः स्युः परान्विताः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42