SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ तिथिनिर्णयः अग्रयां प्रथमाम् । तथा-नन्दायां दर्शनं रक्षा बलिदानं दशासु च | भद्रायां गोकुलक्रीडा देशनाशाय जायते ।। एवमादिवचनानि परदिने चन्द्रदर्शनसम्भावनायां पूर्वविद्धास्तावकानि । यदाह-राज्योपार्जकठक्कुरानुगृहीतपुराणसमुच्चये-प्रतिपत्तु त्रियामा स्यान्मैत्रः बुधवासरे । तदिने पूर्वयामे तु गोपूजा परमा शुभा ॥ मैत्रमनुराधा । बुधवारस्य सौम्यदिनमात्रोपलक्षकता । तथा गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः । सोमो राजा पशून हन्ति सुरभी पूजकांस्तथा ।। चन्द्रदर्शनसंभावनामाह, शातातपः द्वितीया त्रिमुहूर्तावै प्रतिपद् या पराह्निकी | अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात् । मुहूर्तो घटिकाद्वयमित्यभिधानात् । घटिकाषट्कस्य किश्चिन्यूनत्वेपि । यामोपलक्षकता पुराणसमुच्चयेन सहैकवाक्यतानुरोधात् । मिथिलेशशुभङ्करचरणा अपि द्वितीयायात्रिमुहूर्तव्यापित्वे चन्द्रदर्शनसम्भावनामाहुः, यामा ान्यूनव्याप्ताविति यत्र कचिल्लभ्यते । तदुत्कटकोटिकाशङ्कानिरासार्थमेव । तथा पापाहे च विशाखायां न कुर्यात् पूजनं गवाम् । राजमार्तण्डे-विशाखायाममावस्या विशाखाप्रतिपद्युता | आयुः पुत्रं धनं हन्ति यः कुर्यात् सुखरात्रिकाम् ॥ गोनीराजने शुक्रास्तादिदोषपरिहारं कुर्वन्ति बहवः । (२) द्वितीया-द्वैधः द्वितीया तृतीयायुता ग्राह्या, युग्मनिगमात् तथाहिपैठीनसिः-एकादश्यष्टमी षष्ठी द्वितीया च चतुर्दशी । त्रयोदश्यप्यमावास्या उपोष्याः स्युः परान्विताः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001772
Book TitleTithinirnay
Original Sutra AuthorN/A
AuthorRamchandra Jha
PublisherChaukhamba Vidyabhavan
Publication Year1993
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari, Tithi, & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy