SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ तिथिनिर्णयः अथ तिथिद्वैधविचारः (१) प्रतिपद्-द्वैधः पैठीनसिः-पञ्चमी सप्तमी चैव दशमी च त्रयोदशी । प्रतिपन्नवमी चैव कर्तव्या सम्मुखी तिथिः ॥ सम्मुखी सायाह्नव्यापिनी | आश्विनशुक्ला द्वितीयायुता ग्राह्या तथाहिदेवीपुराणम्-यो मां पूजयते भक्त्या द्वितीयायां गुणान्यताम | प्रतिपच्छारदीं ज्ञात्वा सोऽश्नुते सखमक्षयम् ।। यदि कुर्यादमायुक्तप्रतिपत्स्थापनं मम । तस्मै शापायुतं दत्त्वा भस्मशेषं करोम्यहम् ।। मार्कण्डेयपुराणम्-पूर्वविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी | नवरात्रव्रतं तस्यां न कार्य शुभमिच्छता ॥ यदा तु पूर्वदिने षष्टिदण्डात्मिकापि वर्द्धमानोत्तरदिने लभ्यते, तदा द्वितीयायोगमनादृत्य पूर्वैव ग्राह्या, कपालाधिकरणन्यायात् । द्वितीयावेधस्तावकानामप्यमायोगनिषेधे तात्पर्यपर्यवसानात् | उत्तरत्र तिथिमलत्वेन निषेधाच्च । यत्र क्षयवशादमायुक्तैव लभ्यते न द्वितीयायुता तत्र अमाविद्धायामपि प्रतिपदि पूर्वाद्ध कलशस्थापनादि कार्यम् । द्वितीयायोगसम्भव एव पर्वोक्तविधिनिषेधानां प्रवृत्तेः। एवमग्रेपि व्यवस्थाऽनसन्धेयेति । (प्रतिपत्तिथिः) गोक्रीडायाममायुक्तापि ग्राह्या, यदाह, नारदः-या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप । पूजनात् त्रीणि वर्द्धन्ते प्रजा गावो महीपतिः ।। देवलः-प्रतिपद्दर्शसंयोगे गवां वै क्रीडनम्भवेत् । परविद्धासु करणात् पुत्रदारधनक्षयः॥ तथा-प्रतिद्यग्निकरणं द्वितीयायां गवार्चनम् | छत्रच्छेदं वित्तनाशं करिष्यति कुलक्षयम् ॥ गोभिलः-महाष्टमी च गोक्रीडा पौर्णमास्यावुभे तथा । श्रावणी फाल्गुनी चैव कुर्यादग्रयां नचोत्तराम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001772
Book TitleTithinirnay
Original Sutra AuthorN/A
AuthorRamchandra Jha
PublisherChaukhamba Vidyabhavan
Publication Year1993
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari, Tithi, & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy