Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan

Previous | Next

Page 12
________________ तिथिनिर्णयः उदयात् प्राक्तनी सन्ध्या घटिकाद्वयमिष्यते । सायं सन्ध्या त्रिघटिका अस्तादुपरि भास्वतः॥ तथा-त्रिमुहूर्तः प्रदोषः स्याद् भानावस्तंगते सति । तत्परा रजनी प्रोक्ता तत्र कर्म परित्यजेत् ॥ प्रदोषो रजनीमुखम् इत्यभिधानवचनमप्येतत्परमेव, अन्यथा नानार्थता स्यादित्याहुः । अत एव षड्घटिकात्मके प्रदोषे पूर्वघटिकात्रयं परित्यज्योत्तरघटिकात्रये नक्तमेकभुक्तवत् कार्यमिति सिद्धवलिखन्ति पक्षधरमिश्राः । नरसिंहपुराणे-आत्मनो द्विगुणच्छायां यदा सन्तिष्ठते रविः । सौरं नक्तं विजानीयान्न नक्तं निशि भोजनम् ।। तेन तदूर्ध्वन्दिवैव भोजनं निशि भोजनस्य निषेधात् । मुहूर्तोनन्दिनमिति भविष्यपुराणमप्येतत्परमेव । अतः प्रातस्तनद्विगुणच्छायोत्तरभोजनशङ्का निरस्ता। सौरव्रतेतरवते नाक्षत्रमेव नक्तमिति व्यवस्था सामान्यविशेषन्यायादिति समयप्रदीपः । यदा दिनद्वये प्रदोषव्यापिनी तिथिर्न लभ्यते तदा नरसिंहपुराणीयं ग्राह्यम् । “प्रदोषव्यापिनी न स्याद् दिवा नक्तं विधीयते ।" इति । स्कन्दपुराणादिति चतुर्वर्गचिन्तामणिः। वईमानपादास्तु-नक्षत्रदर्शनान्नक्तं गृहस्थानां स्मृतं बुधैः । यतेर्दिनाष्टमे भागे तस्य रात्रौ निषिद्धयते ।। इति देवलवचनाद्यतेरेव रात्रिभोजननिषेधाद् “दिवा नक्तं विधीयते" इत्याहुः। नक्षत्रवते सु-उपोषितव्यं नक्षत्रं यस्मिन्नस्तमियाद रविः । युज्यते यत्र वा तारा निशीथे शशिना सह ॥ निशाविभागमाह, आगमे-निशा तु परमेशानि सूर्ये चास्तमुपागते । प्रहरे च गते रात्रौ घटिके द्वे परे च ये । महानिशा समाख्याता ततश्चातिमहानिशा ।। द्वतीयप्रहरान्तिमघटिकाद्वयं तृतीयप्रहरादिघटिकाद्वयब्चेत्यर्थः। अत एव-महानिशा द्वे घटिके रात्रेमध्यमयामयोः, इत्याह देवलः । इति कालविभागः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42