Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः सायाह्नत्रिमुहूर्तः स्याच्छाद्धं(१) तत्र न कारयेत् । राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु । अह्नो मुहतो विख्याता दशपश्च च सर्वदा । अत्राष्टमो मुहतों यः स कालः कुतुपः स्मृतः॥
रौहिणो नवमः प्रोक्तः पितृणामुभयं हितम् । अन्यत्रापि-द्वौ यामौ घटिकान्यूनौ द्वौ यामौ घटिकाधिकौ । स कालः कुतुपो ज्ञेयः पितृणां दत्तमक्षयम् ॥ श्रुतिः-पूर्वाह्यो वै देवानां मध्यन्दिनं मनुष्याणामपराहः पितृणामिति । दिनमानस्य त्रिधा विभागेन सङ्गम
नीया । नक्तमाहभविष्ये-मुहूर्तोनं दिन केचित् प्रवदन्ति मनीषिणः । नक्षत्रदर्शनानक्तमहं मन्ये गणाधिप ।
नक्षत्रदर्शनादिति पूर्वावधिकथनम् । तेन नक्तपदादात्रिमात्रप्राप्तौ सन्ध्याव्यावृत्तौ तात्पर्यम् । आदित्यास्तमनकालस्य तथात्वात् । एवञ्च “नक्तव्रते तु सम्प्राप्ते तत्कालव्यापिनी तिथिः" इति दक्षवाक्ये | "उदये तूपवासस्य नक्तस्यास्तमने तिथिः” इति बौधायनवाक्येऽपि नक्तपदं रात्रिपरम् । “नक्तादिव्रतयोगे तु रात्रियोगो विशिष्यते” इत्यनेन सहैकवाक्यतानुरोधात् । तथापि “प्रदोषव्यापिनी ग्राह्या तिथिनक्तव्रते सदा ।" प्रदोषो यथा तिथितत्त्वविश्वादर्शयोः-"प्रदोषोऽस्तमनादूर्ध्व घटिकाद्वयमिष्यते ।” घटिकाशब्दोत्र मुहूर्त परः । त्रयोदश्यस्तगे सूर्ये चतसृष्वपि नाडिषु । भूतविद्धा तु या तत्र शिवरात्रित्रतश्चरेत् ॥ इति वायुपुराणेन सहैकवाक्यतानुरोधात् । चतुर्वर्गचिन्तामणौ तु-"नक्षत्रदर्शने नक्तं प्राग्यामाभ्यन्तरेऽशनम्" इत्युक्तम् । मिथिलेशशुभङ्करबर्द्धमानचरणास्तु
(.) बृहन्नारदीये-दिवोदितानि कर्माणि प्रमादादकृतानि वै । यामिन्या प्रहरं यावत् तावत् कर्माणि कारयेत् ॥ संग्रहेऽपि-रात्रौ प्रहरपर्यन्तं दिवाकृत्यानि कारयेत् । ब्रह्मयज्ञं चौरं च वर्जयित्वा विशेषतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42