Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 9
________________ तिथिनिर्णयः न्तरस्यासम्भवात । न च मिलितं तिथिद्वयं कोङ्गम् एकतिथ्यवच्छेदेन कर्मसमाप्तौ वैगुण्यापत्तः। एतदथस्तमिति पूर्वोक्तयुग्मविपरीतं न ग्राह्यम् । तेन प्रतिपद्वितीययोयुग्मं न ग्राह्यमेवमग्रऽपि । चतुर्दशी शुक्लापूर्णिमायोगात । ष्णा तु त्रयोदशीयुतैव ग्राह्या युग्मवचनाऽनाघ्रातत्वात 'कामविद्धो हरः पूज्यः' इति स्मृत्यन्तराच्च । प्रतिपदपि शुक्लैव अमायोगसामर्यात । द्वितीयादिद्वादशीपर्यन्ताः शुक्लाः कृष्णाश्च विशेषानुपादानात् । अयं च यग्मविधिः अहोरात्रसाध्योपवासादिकर्मणि तिथिद्वैधे सति । देवपूजादावपि दिनद्वयं विहितपूर्वाह्लादिगामितिथिलाभे सति च सर्वत्र बोध्यः । यदा त्वेकस्मिन्नेव दिने विहित काले तिथिलाभस्तदा तव व्रतादि काम सन्देहानत्थानात | न च व्यस्तनिन्दाश्रवणात तत्रापि युग्मादरः दिनद्वयगामिनि विहितकाले सति सप्तम्यादिनिमित्तकं सकत कर्तव्यं कर्म पूर्वस्मिन् परस्मिन् वेत्यपेक्षायामेव युग्मविधेरवतारात् । अपेक्षितविधिबलात नियममात्रे लाघवाच्च व्यस्तनिन्दापि तत्रैव विधिशेषत्वात् । नन्वेवमहोरात्रव्यापिन्यां षष्ठयां सत्यामुत्तरदिने वर्द्धमानायाः षष्ठ्याः सप्तमीविद्धाया आदरोस्त इति चेन्न । दिनद्वये तिथिवेधे सत्येव तद्वचनप्रवृत्तेरिति जीर्णोद्धारः । केचित्तु उपवासमात्रे युग्मविधिमिच्छन्ति निषेधे तन कुत्रापि युग्मविधिः अष्टम्यादौ मांसादिभक्षणनिषेधस्य समस्तकालव्यापित्वेनापेक्षाविरहात , एवं च निषेधे कालवर्जनमिति वचनं न्यायमूलकमेव । तदेवं युग्माग्नीत्यादि गौडीयवचनानुसारिणी दशमी त्रयोदशी कृष्णप्रतिपद्भिन्नासु तिथिषु व्यवस्था सिद्धा। __ भूपालादिमते तु सप्तम्येकादश्योर्वाचनिकी व्यवस्था । तिभ्यन्तरेषु व्रते संकल्पस्य प्राधान्यात तस्योदयकाले दुर्घटत्वेऽपि तत्कालव्यापिन्यां तिथौ प्रातरेव विधानादुदयकालसंबन्धितिथ्यादरो युक्तः । दिनद्वयेपि उदयगामितिथिलाभे कपालाधिकरणन्यायाद्वयवस्था युक्तं चैतदीदृश्यानिस्पृशाया एव सम्भवात । तत्र च म तिशिमलं याय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42