Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch
View full book text
________________
सरः
कालातिरेकबाधकं तन्निरासश्च
____619
तत्वमक्ताकलापः समुदितः संप्रतीते तु भेदे साधर्म्य नैक्यहेतुः स हि तदितरवद्रोषितस्तद्विभूतिः ॥ ६६ ॥
सर्वार्थसिद्धिः . . प्रश्नसंघटनाच । सर्वकार्यहेतुत्वनित्यत्वविभुत्वैः तदैक्यसाधनं निरस्यति-संप्रतीते त्विति । वस्त्वन्तर इव भेदकण्ठोक्तिं व्यनक्ति-स हीति । 'ब्रह्मा दक्षादयः कालः' इत्यादिभिरिति शेषः। विष्णुमन्वादयः कालः इत्यत्र विष्णुशब्दोऽवतारपरः। तस्य तद्विभूतित्वं च तादृशरूपेण ॥६६॥
कालस्येश्वरैक्यशङ्कापरिहारः,
आनन्ददायिनी माहुः । संकर्षणस्यैव रुद्राभिमानित्वाच्च । अभिमानिद्वारा सामानाधिकरण्ये प्रश्नोपपत्तिः । कालः परमात्माभिन्नः सर्वकार्यहेतुत्वात् परमात्मवत् व्यतिरेकेण घटवच्च । नित्यत्वाद्विभुत्वाद्वेत्यादि परमात्माभेदसाधकान्यागमबाधितानीत्याह-सर्वकार्येति । नित्यत्वं विभुत्वं च जीवादौ व्यभिचारीति ध्येयम् । ब्रह्मादक्षादय इति-यद्यपि चेतनदेवताभिस्सह पाठत् कालो यमोऽत्रेति वक्तुं शक्यम् ; तथाऽपि कालशब्दाभिधेयस्य ततो भिन्नत्वं सिद्धम् । यमादीनां कालशब्दवाच्यत्वं च तदभिमानितया । तथा च तस्य भेदे तदभिमा(न्यस्य)नस्य सुतरां भेदस्सिध्यतीति भावः । नन्वत्रापि कालशब्दः परब्रह्मपर एवास्तु न च विभुत्वानुपपत्तिः ; विष्णुमन्वादय इत्यत्र विष्णुवदुपपत्तेरित्यत्राह-विष्णुर्मन्वादय इति । तादृशरूपेणेति-उपेन्द्राभिधानतादृशविग्रहरूपेणेत्यर्थः ॥ ६६ ॥
कालस्येश्वरैक्यशङ्कानिरासः

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746