Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
सुखासननिविष्टः सन् स्वप्नस्मरणतत्परः । निजेष्टदेवतामन्त्र--स्तोत्रनामग्रहान्विता ॥३॥ नमोऽस्तु ते जगन्नाथे जगत्स्वामिनि चाम्बिके । प्रयच्छ प्रार्थयामि त्वां स्वप्नस्यामुष्य मे फलम् ॥ ४ ॥ इति वाणी वदन वारं-- वारं शुभकथापरः । नयेद्विभावरी शेषां यावत्सूर्योदयो भवेत् ॥ ५ ॥ मलमूत्रे ह्यनुत्सृज्य दुःश्रवाच्छादितश्वशः । मूर्खाणां कृपणानां च स्त्रीजितानां च पापिनाम्। ६॥ दुर्भाषिणां द्वेषिणां च खलानां गुरुनिन्दिनाम् । मुखान्यपश्यन्तेषां वजेत्स्वप्नमनुस्मरन् ॥ ७ ॥ राजानं स्वामिनं वापि मंत्रिणं बुद्धिशालिनं । गुरु विप्रं लिङ्गिनं च ब्रजेत् स्वप्नार्थवाधिनम् ॥ ८॥ फलं पुष्पं तथा द्रव्यं तस्योगायनतां नयेत् । तं प्रणम्य महाभक्त्या स्वप्नं तस्याग्रतो वदेत ॥६॥ तन्मुखात्तत्फलं श्रुत्वा जय जीवेतिवाग्नरः । पुनः प्रणम्य सत्कारं तस्य कुर्याद्विशेषतः ॥१०॥ स्त्रीणां च मृढबुद्धीनां बालानां पापिनां पुरः । शुभं स्वप्नं न चाख्येयं न श्राव्यं तन्मुखात् फलम् ॥११॥ तथा विलोक्य दुःस्वप्नं पुनः शयनमाचरेत् । अमङ्गलं प्रतिहतं वाचमे वदेत्ततः ॥१२॥
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91