Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीर्घपादः पथि स्थित्वा रोदिति श्वा प्रवासिनः । तत्कुटुम्ब रोदयते मार्ग खनति वित्तदः ॥६॥ न विशत्यर्धमार्गे चे-त्तदा ग्रामान्तरे स्थितः। भवति श्वा विलुठति मार्गार्धे देहकष्टदः ॥७॥ दक्षिणस्थो वजन् मागें शुभो वामे च निन्दिनः । मार्गस्थः सम्मुखौ रोति तदा स्वजनमृत्युदः ॥८॥ वामे स्त्रीपक्षघात्यन्य-स्मिन् स्वपक्षं तु पृष्ठतः । करोति वेश्मन्यसुखं हदमानोऽशुभः सदा ॥६॥ भीतिं हरति भीतम्य यदि श्वद्वय मुत्तरेत् । यः पश्चात्तस्य चेष्टायाः फलं च प्रथमोऽफलः ॥ १० ॥ शुन्या सहोत्तरति चेत् श्वानचेष्टा तथापि हि । विपरीता शुनीचेष्टा रतासक्तोऽत्यनर्थदः ॥११॥ तादृशोऽपि शुभो वृष्टौ मूत्रयन्नपि वृष्टये । स्थानस्थितस्य यम्य श्वा देहं जिघ्रति लाभदः ॥ १२॥ अतीवात्राशुभो ज्ञेय आसनादौ पुरीषकृत् ।। मृत्रयन् शान्तिदिगचक्रः स श्रेष्ठो दक्षिणांहिणा ॥ १३ ॥ दीप्तायां वामपदेनो-दकदानाय मण्डलः । विपरीते फलं तस्य मध्यमं जायते पुनः ॥१४॥ गृहान्तविरुवनन्य-पुरुषं वक्ति कुक्कुरः । बाधवक्रो गृहपृष्ठे विरुवन् क्षत्रभीतये ॥१५ ।।
For Private and Personal Use Only

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91