Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ दक्षिणे वामभागे वा वनिता कोकिला शुभा । शकुन्तिकाग्रे वामे च गृह्यते यायिभिः पथि ॥ २६ ॥ निर्धनानां धनं दत्ते दक्षिणो वृद्धतित्तिरः । पृष्ठप्रदेशे गृध्रस्तु कार्यसार्थकगे लपन् ॥ ३० ॥ रजकी नीलचटिका दृष्टापि कार्यनाशिनी । पक्षयोरुभयोग्राह्य कपिमर्कटबूस्कृताम् ॥३१॥ त्राटुकृतं वृषभस्यापि श्रुतं दृष्टं च कामदम् । बृहितं तु गजस्येवं श्रुतस्तु महिषीरवः ॥ ३२ ॥ प्रयाणे ब्राह्मणी वामा शुभाय शिखितांडवम् । कीर्तनं दर्शन केका विषमाः केकिनो मताः ॥ ३३ ॥ शशोत्वहिपोत्रिगोधाः कीर्तनादेव सत्तमाः । वभुखञ्जनचापाजा-स्त्रिधापि शुभकारिणः ॥३४॥ पुष्पाक्षतादिविनाधि-गणं सम्पूजयेत्सदा । गृहीत्वा निशि गच्छेत वाम गोशुचिपौरुषौ ॥३५ ।। अन्त्यजादिमन्दिरेषु सुस्पष्ट शृण्वतो गिरम् । उपश्रुतिरियं ज्ञेया सा तथैव शुभाशुभा ॥३६ ।। रथाङ्गहंसराजकीर-चटकाः सारसास्तथा । लट्टाचकोरचाषाश्च पक्षिणः खञ्जनादयः ॥३७॥ दक्षिणा गतिरेतेषां कीर्तनं दृष्टिदर्शनम् । स्वरश्च सर्वकार्येषु ददात्यविकलं फलम् ॥३८॥ युग्मं ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91