Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यद्युत्तरन्तस्त्रस्यन्ते सारमेयवृकादिना केनापि शत्रुणा कार्य निष्पन्नं तद्विनाश्यते ॥ १३ ॥ वासिता एकमेकं चेद् भूत्वा यान्ति दिशो दिशम् । तिष्ठन्तो देशभङ्गश्च गच्छन्तोऽशुभसम्भवम् ॥१४॥ कुटुम्बस्य विरोधेना--न्यत्रान्यत्र भवेद्गतिः । राजग्रहेण वा स्थान-वासं रक्षन्ति ते मृगाः ॥ १५ ॥ इत्याचार्यश्रीमाणिक्यसूरिविरचिते शाकुनसारोद्धारे हरिणप्रकरणमष्टमं समाप्तम् ॥ श्रीरस्तु ॥८॥ अथ श्वानप्रकरणंश्वानश्च वामगः श्रेष्ठः स्थानेष्वेतेषु निन्दितः । जम्ममाणो धुनानोग-श्रुती विलुठन् गूथकृत् ॥ १॥ द्विजात्यादिषु वर्णेषु श्वेतवर्णादिमण्डलः । विशेषपूर्णफलदो वर्णान्यत्वे तु तुच्छदः ॥ २ ॥ श्वानः पूर्व वामः पवाद्दक्षिणगतस्तदा मार्गे । क्षेमं कृत्वान्तेङ्गा-तिं वा राजग्रहं कुर्यात् ॥३॥ गच्छता लेख्यदानाय सर्ववर्णनियोगिनाम् । किश्चिदुद्वेगदो वामः पदभ्रष्टस्य सोऽतिहः ॥४॥ सोऽपि दूरे भाषमाणो राजग्रहकरो मतः । भव्यः सर्वत्र भक्ष्यास्यः केशास्थ्यादिमुखोऽशुभः ॥५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91