Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
आकस्मिकस्य युद्धस्या-नर्थम्य च निगद्यते । निमित्तमाकस्मिकश्च सर्वमत्र शुभाशुभम् ॥१॥ यस्य श्वानद्वयं स्थान-स्थितस्य वहवोऽथवा । कुर्वन्ति युद्धमीशाने क्षत्रेण क्षत्रियैः सह ॥ २ ॥ पूर्वस्यां दिशि युद्धयन्ते परचक्राहवस्तदा । काकद्वितीयमीशान्यां पक्षावास्फालयन् युधि ॥३॥ अन्यस्यामपि दीप्तायां दिश्याजये शुना वृतिः । वाग्विवादाय शान्तायां स्थानस्थफलमीदृशम् ॥४॥ चटकद्वयं घना वा युध्यन्तोऽग्रे पतन्ति निजमध्ये । वृद्धावृद्धिवश्यं विप्रचयो वा भवत्याशु ॥५॥ निपतन्त्यथ देहोपरि तदा भवेद्भार्यया सहोद्वेगः पश्चिमभागे चेदथ रिपुतो भीति समाख्यान्ति ॥ ६ ॥ नीडादौ तु चटकं यत्पुरतो लाति तस्य पीडा स्यात् । गृह्णात्यथ चटकं चे-झार्याकष्टं करोत्याशु ॥ ७ । चेत्करेणोपविष्टस्य सर्ववर्णनियोगिनः । स्थानस्थितस्यान्यत्रापि चटको मस्तके चटेत् ॥८॥ व्यापारिणस्तदान्यस्या--गमनं कथयत्यसौ । चटका वस्त्रलाभाय सौख्यव्यापारवृद्धिदाः ॥ 8 । युग्मं ।। विडालद्वयमीशान्यां स्थानस्थस्य करोति यत् । तत्तस्कारादियुद्धाया--ग्नये सन्तापहेतवे ।।१०।।
For Private and Personal Use Only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91