Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
सूर्योदये गृहोद्ध चे-दग्निभीत्यै यथातथा । शृगालैः सहितो रात्रौ रुवन् दारुणभीतिदः ॥१६॥ विशन्नस्थिमुखो गेहे स्वामिपुत्रादिमृत्यवे । क्रीडति स येन साधं तस्य सौख्यं प्रयच्छति ॥१७ । क्रयाणकोर्ध्व मूत्रयन् भषणो लाभदायकः । यद्यद्गृहीत्वा गेहान्त-विशेतद्वस्तु गृह्यते ॥१८॥ गृहीत्वा गोमयं गेहे विशन् गोहरणाय सः ।। आत्मानं दशनः खादन स्थानं शून्यं करोति सः ॥११॥ चतुष्पथे राजमार्गे गोवत्सी कामयन् स च । परचक्रभयं मासि सप्तमे तत्र मण्डले ॥२०॥ दक्षिणेनांघ्रिणा कर्ण बिलिखन् वृद्धिसूचकः ।। भषणो बिलिखंश्चक्षुः प्रतिसूः प्रियसङ्गमे ॥ २१ ॥ प्रामाय विलिखन् वक्रं स्कन्धं विलिखन कुक्कुरः । वृषभाश्वादिलाभाय पाश्व कुटुम्बवृद्धये ॥ २२ ॥ एनेष्वेव स्थानकेषु वामपादेन नो शुभः । वामाङ्ग बिलिखन् भूमि खनन् वित्तं प्रयच्छति ॥ २३ ॥ अस्थिवज भक्ष्यवक्रः श्रेष्ठः सोऽथ पुरे यदि । वेलाकूले घनाः श्वानो रुवन्तो वाहनागतिम् ॥२४ ।। परचक्रागर्ति कुयु-रन्यत्रैतत्स्वचेष्ठितम् । समस्तं कार्तिके मासि फलमल्पं विदुधाः ॥२५ ॥
For Private and Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91