Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ श्रमणस्तुरगो राजा मयूरः कुञ्जरो वृषः । प्रस्थाने वा प्रवेशे वा सर्वसिद्धिकरः स्मृतः ॥ ११ ॥ भट्टः कल्याणमुखो वेदमुखो ब्राह्मणस्तथा (शस्तः) । श्वेताम्बरः सभितो राज्याय वदन्ति शकुनज्ञाः ॥ १२ ॥ शकुन सप्तत्यां भारतोक्तंरथमारुत पार्थ गाण्डीवस्त्रं करे कुरु । निर्जितां मेदिनीं मन्ये निर्ग्रन्थो यदि सम्मुखः ||१३|| अथ शकुनार्णवोकं - पद्मिनीराजहंसाच निर्ग्रन्थाश्च तपोधनाः । यं देशमनुसर्पन्ति तत्र देशे शिवं वदेत् ॥ १४ ॥ भट्टारकजटिचिन्ता-यकोऽशस्यस्तु सर्वथा । एकस्तपोधनो भस्मोद्धूलिताङ्गोऽतिदुःखदः || १५॥ बहवो बह्वनर्थाय दृष्टाः स्वप्नेऽपि निन्दिताः । तपस्विनी स्त्री त्रिफला रोगिणो मृत्युदा हि सा ॥ १६ ॥ भृतभिक्षापात्रपाणिः सर्वोऽपि दर्शनीयकः । सम्मुखः कार्यकर्ता च रिक्तोऽनथैपरम्पराम् || १७ । यात्राकाले प्रवेशे च य आत्मनो हितावहः । नरो व कामिनी वापि लाभतेजःसुखप्रदौ ॥ १८ ॥ दृष्टः श्रुतोऽथवा शत्रुः कार्यं हन्ति न केवलम् । किं स्वनर्थाय महते वेश्यास्त्री मङ्गलप्रदा ||१६|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91