Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१
चामरे श्रीकरी छत्रं वरेण्यानि प्रवासिनः । भग्नदण्डान्यनिष्टानि स्वामिशीस्थितानि च ॥१॥ अक्षता यवगोधूमा-स्तण्डलाच युगन्धरी । धान्यानि कार्यकारीणि मुद्गा माषाश्च निंदिताः ॥२॥ तिला द्रव्यापहाराय वल्लाढक्योऽतिमध्यमाः । कामुख्यं तुषान्नं च तुच्छलाभाय सम्मुखम् ॥३॥ पिष्टान्नमशुभं सर्व भ्रष्टं धान्यं न सिद्धये ।। सिद्धमन्नं सर्वसिद्धथै कथितं . कष्टहेतवे ॥४॥ शीर्षस्थः शकटस्थोऽपि कार्यभङ्गाय कण्टकः । शाड्वलः सोऽपि लाभाय केचिदेवं विदुबुधाः॥५॥ श्रुतो दृष्टोऽथ भूपालो-ऽनर्थसाथ निकृन्तति । सोऽप्यश्वहत एकाकी प्रत्युतानर्थदायकः ॥६॥ सर्वः कोऽप्यात्मविद्वेषी विरुद्धो ब्राह्मणः पुनः।। कृतभोज्योऽथ गृहीत-निर्वापः शुभदो भवेत् ॥७॥ नान्यथा सम्मुखायातं कारयेन्मन्त्र पावनम् । ब्राह्मणाः पाठितो मन्त्रं दुरितं हन्ति यायिनाम् ॥८॥ दर्शनं श्वेतभिक्षणां सर्वोत्तमफलप्रदम् । किंपुनः मूरिसंयुक्तं राजयोगोऽयमुत्तमः ॥६॥ न केवलं मयैवोक्तं श्रीव्यासेनापि भाषितम । शकुनार्णवेऽपि निर्णीतं शुभं निर्ग्रन्थदर्शनम् ॥१०॥
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91