Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थे नैऋतापाच्यो--रस्ताद्यावन्महानिशाम् । अपाच्यानिलकौबेरी--वशुभा ध्वनिता शिवा ।। १३ ।।
त्रिभिर्विशेषकं ॥ अतीवसौख्यशुभदा याम्यां निश्यरुणोदये । पूर्वस्यां तत्पुराध्यक्ष--मितरं कुरुते शिवा ॥१४॥ अस्ते शिवा पश्चिमायां परचक्रभयाय सा । शुमा कुबेरदिश्यस्ते ग्रामान्तः शून्यकारिणी ॥ १५ ॥ अश्वमध्ये कृतरवा शिवा युद्धप्रपञ्चकृत् ।। अथ घूकस्वरो वामो यात्रायां गच्छतः शुभा ॥१६॥ दक्षिणो मृतये किंचिद् दुष्टं दर्शनमस्य हि । यात्राकाले प्रवेशे च सर्वथा सर्वदा त्यजेत् ॥१७॥ सन्ध्याकाले प्रवेशे भू-म्युपविष्टः कृतस्वरः । दृष्टो रोगप्रदो घूकः सोऽप्यार्त्तानां भयापहः ॥ १८ ॥ गृहोपरि गृहद्वारे नाम गृह्णाति यस्य वा । म्रियते यस्य गेहान्त--ने श्रेष्ठः स द्वयोरपि ॥ १६ ॥ यात्राकाले रटन् घूको हयादिवाहनोपरि । तद्वाहनविनाशाय दृष्टो घूकोऽफलो दिवा ॥२०॥ उपरिस्थो रात्रिरवो घूघूशन्दं करोति यद्भवने । नियतं तस्याधिपतिं षण्मासार्वाग् विनाशयति ॥ २१ ॥
For Private and Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91