Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३४०
प्रकीर्णरचनासन्दोहः
॥ ७. श्रीमदाचार्यवर्यविजयनेमिसूरीश्वरगुर्वष्टकम् ॥
- पं. श्रीप्रतापविजयगणिः
शर्मदोऽकमदः पातात्, पूर्णं रञ्जितसंहतिः । यमदोऽकप्रदः पातात, तूर्णं भर्जितसंसतिः ॥ १॥ *गोमत्रिकाबन्धः ।। सूरीशोऽतर्नुमातङ्गपारीन्द्रोऽसमशान्तिदः । पूज्यो द्यादन्यसिद्धान्त-ध्वान्तध्वान्तहरोऽसुखम् ॥ २ ॥ प्रोत्तप्तकाञ्चननिभप्रतिभासमानं, नेमिं गुरुं गुणगुरुं प्रतिभाऽसमानम् । सद्योगयोगललितं कलिकल्कनाशं, वन्देऽहमिन्दुवदनं परिपूरिताशम् ॥ ३ ॥ नमामि नेमिनामानं, मानोनं माननं मुनिम् । नुन्नैनोमममामोन१९-मुमामेनमिनु नमम् ॥ ४ ॥ व्यक्षरः ।
१. शमं- शान्ति ददातीति शमदः । २. न विद्यते के- आत्मनि मदो यस्य सः । ३. रक्षतात् । ४. पूर्णं यथा स्यात् तथा रञ्जितसंहतिर्मोदितसङ्घः, देशनयेत्यर्थः । ५. यमानि- महाव्रतानि ददातीति यमदो- मुनिरत्र च प्रकरणवशान्नेमिसूरिर्गुरुः । ६. अकं- दुःखं पापं वा प्रकर्षेण द्यति- खण्डयतीत्यकप्रदः । ७. पात:- पतनं तस्मात्, निरयादिगतावित्यर्थः । ८. शीघ्रं त्यक्तसंसार इत्यर्थः । ९. कन्दर्पः । १० सिंहः । ११. खण्डयतात् । १२. सूर्यः । १३. प्रतिभया- बुद्ध्या असमानं- अतुल्यमित्यर्थः । १४. पापम् । १५. मानेनाऽहङ्कारेण ऊनो- रहितस्तम् । १६. मश्चन्द्रमास्तद्वदाननं- मुखं यस्य तम् । १७. नुन्नौ- क्षिप्तौ एनोममौ- दुरितममते येन स नुन्नैनोममस्तम् । १८. आमेनरोगेण ऊनो- रहितस्तम् । १९. उमा- शान्तिः सैव मा- लक्ष्मीस्तस्या ईन:- स्वामी तम् । २०. ए:- कामस्य नुन्ना- परिक्षिप्ता मा- शोभा येन स इनुन्नमस्तम् ।
* गोमूत्रिकाबन्धः शम | दो क_म | दः | पा तात् पूर्णं _र |ञ्जित | सं | ह | तिः
* * * * * * * * * * * * * य म | दो |ऽक प्र | दः पा | तात् तू | ण | भ |ञ्जि | त | सं | सृ |तिः

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380