Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रकीर्णरचनासन्दोहः
३५३
॥ १३. श्रीधर्माष्टकम् ॥
- प्र. मुनिश्रीयशोविजयः
धर्मात् सद्गोत्रजन्मा भवति नु भविकः क्षेमकारी जनानां, धर्माद् धान्यैश्च शर्मावह इह भवति प्राणभृद् विश्वविश्वे । धर्माद् ध्यानैः सुकर्माग्रग इह गदितो गुण्यपुण्याग्रणीश्च, धर्माद् धन्य: सुवर्मावह इह भवति त्राणशक्तो नराणाम् ॥१॥ (स्रग्धरा) धर्माद बाल्येऽपि लाल्यो भवति त सततं पालनीयो जनानां, धर्माद् दावेऽपि विष्टो भवति धृतिगतो भ्रान्तिभित् कान्तिधारी । धर्मात् पुण्योऽपि गुण्यो नमति च सततं पादपद्मं परत्र, धर्माद् दीनोऽपि लीनो भवति नु भुवने स्वर्गसौख्ये सदैव ॥२॥ धर्माद् दुःखेऽपि लीनो भवति नु सततं शर्मसीमावलीनो, दीनो मीनोऽपि धीनो धरति हि धृतितः सर्वसम्पत्तिपत्तिम् । धर्माद् ध्यानेऽपि गाने भवति च सततं धीधनो धैर्यधारी, धर्माज्ज्ञानेऽपि ताने इह हि वितनुते बुद्धिवृद्धि विविद्वान् ॥३॥ धर्माद् दुःखस्य धारा भवति न हि पुनर्दुःखकारा नराणां, धर्माद् दारा न कारागृहमिव भविनामत्र विश्वेऽपि विश्वे । धर्माद् धीशस्य धीरस्य च न हि भवति व्याघ्रवर्गोऽपि भीकृद्, धर्मात् स्फारा च सारा सततमिह सतां सर्वसम्पत्तिसत्तिः ॥४॥ धर्माद् धैर्यधरो वरो हि भवति श्रेयस्करोंऽहोहरो, धर्माद् रूपमनोहरो धनधरो धर्येषु धीरो नरः । धर्माद् वीरतरो विपत्तिहरणो भद्रङ्को भीहरो, धर्माद् भाग्यविभूतिभूतिवितरो विद्वद्वरोऽयं नरः ॥५॥ (शार्दूलविक्रीडितम्) धर्माद् वर्णनपात्रमत्र भवति श्रेयस्सुगात्रस्तथा, धर्मात् सर्वनरा वराः प्रतिदिनं ध्यायन्ति सद्ध्यानतः ।

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380