Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 356
________________ ३४४ ॥ १०. श्रीसूरिस्तवशतकम् ॥ प्रणम्य स्तम्भनाधीशं, स्तम्भतीर्थावतंसकम् । श्रीपार्श्वं सर्वसिद्धीनां, समागत्येकसाधनम् ॥१॥ प्रणम्य श्रीमहावीरं, गणभृद्गौतमं प्रभुम् । त्रैलोक्यवन्दनीयांश्च, लोकेषु सर्वयोगिनः ||२|| धन्यानां भव्यजीवाना-मवतंसन्त्यहर्निशम् । जगदुद्धारणैकस्य, यस्य पादनखार्चिषः ||३|| जातिर्यस्योत्तमा लोके, कुलं सर्वजनाधिकम् । जगद्विभूषणं रूपं वीर्यं भुवनविश्रुतम् ॥४॥ श्रुतं पूर्वभवाभ्यस्तं, विस्फुरत्यधिकं सदा । यस्यैश्वर्यं समैश्वर्यं, सौभाग्यं जगदद्भुतम् ॥५॥ तं सर्वोत्कृष्टसद्वीर्यं, सद्गुरुं शिवदायकम् । दर्शनज्ञानचारित्र - समृद्ध्युत्कर्षशालिनम् ॥६॥ संयमश्रेणिमध्यस्थं, योगसाम्राज्यशोभिनम् । आचार्यं नेमिसूरीशं, भक्त्या स्तवीम्युदारया ॥७॥ जल्पन् गुणानसद्भूता-नन्यं स्तौति जनं जनः । सतोऽपि तांस्तु ते वक्तु-मक्षमोऽहं कथं स्तुवे ॥८॥ बुधैरप्यपरिज्ञेय-गुणं त्वां स्तोतुमीश्वरः । कः स्यात् तथाऽप्यहं स्तौमि व्युल्लसद्बालचापलः || ९ || किञ्चाऽज्ञतामवज्ञाय, निजस्य त्वां स्तवीम्यहम् | यन्मां वाचालयत्येषा, त्वयि भक्तिरवारणा ॥ १०॥ नाऽयुक्तत्वं गमिष्यामि, स्तुवंस्त्वामल्पधीरपि । अव्यक्ता अपि बालानां, युक्ता एव गुरौ गिरः ॥११॥ तवाऽनुभाव एवाऽयं, समस्तोऽपि सुनिश्चितम् । तव प्रसादविख्याताः, के वयं परमार्थतः ॥ १२ ॥ प्रकीर्णरचनासन्दोहः श्रीविजयनन्दनसूरिः

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380