Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 359
________________ प्रकीर्णरचनासन्दोहः ३४७ समस्ताशातना घोरा, दूरीकृत्य प्रयत्नतः । महासङ्कटकालेऽपि, जीवितमप्युपेक्ष्य च ॥४७।। स्वयम्भूपार्श्वनाथस्य, शान्तिनाथस्य च प्रभोः । अन्येषामपि तीर्थेशां, बिम्बानां जन्मनाशिनाम् ॥४८॥ समागते शुभे घने, महोत्सवविभूषिते । प्रतिष्ठाप्य महामन्त्र-स्तदुद्धारस्त्वया कृतः ॥४९।। मेदपाटे महादेशे, ये नरा निर्मलाशयाः । शौर्यवन्तोऽतिभद्राश्च, राजशासनतत्पराः ॥५०॥ परन्तु भद्रकत्वात् ते, कुगुरुपाशपाशिताः । सद्गुरोश्च वियोगेन, धर्मयोगवियोजिताः ॥५१॥ तेषां सर्वाङ्गिनां नाथ !, धर्मबोधनहेतवे । अनेकविद्वत्साधूनां, मण्डलालङ्कृतः प्रभुः ॥५२॥ पवित्रीकृत्य पादाभ्यां, मेदपाटस्य मेदिनीम् । केवलधर्मबुद्ध्यैव, गहनां विकटामपि ॥५३।। हितया प्रियया चैवा-ऽम्भोदगम्भीरया गिरा । शुद्धधर्मावभासिन्या, व्यस्तदोषसमाजया ॥५४|| तान् सर्वानपि सद्धर्मे, वीतरागप्रकाशिते । अस्थापयस्त्वमानन्द-श्रद्धानिर्मलमानसान् ।।५५।। मरुदेशे महाराज !, त्वयाऽनेके जनवजाः । धर्मे स्थिरत्वमानीता, मूर्तिमन्तव्यतान्विते ॥५६।। अन्येष्वपि च देशेषु, विहारक्रमतः खलु । बोधिता बोधदानेन, त्वया मांसाशिनोऽप्यति ॥५७।। विदुषोऽपि प्रभूतांस्त्वं, धर्मकर्मपराङ्मुखान् । योग्यसदुपदेशेन, धर्मकर्मस्वयोजयः ॥५८।। एवं सत्यस्वरूपं ते, न जानन्त्यल्पबुद्धयः । मातङ्गा इव शार्दूल-विक्रमं लेशमात्रकम् ॥५९।। जिनेशाज्ञाबहिर्भूता, सर्वसङ्घबहिष्कृताः । चाण्डाला इवाऽस्पृश्या, ये केचिन् मार्गदूषकाः ॥६०॥ ते तु त्वन्नाममात्रस्य, श्रुत्यैव ज्वरपीडिताः । किं श्रुत्वा गर्जनां सैंहीं, शृगाला: स्वास्थ्यमासते ? ॥६१।। अदृष्टव्यानना ये च, देवद्रव्यादिनाशकाः । ते सर्वे त्वत्प्रतापेन, ग्लायन्ति पेचका इव ॥६२॥ जिनेशाज्ञां समुल्लङ्घय, योगोद्वहनमन्तरा । सन्ति ये पण्डितम्मन्याः, सूरित्वाडम्बरान्विताः ॥६३।। त समुल्लो सूरित्वा

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380