Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 354
________________ ३४२ प्रकीर्णरचनासन्दोहः ॥ ८. शासनसम्राटश्रीविजयनेमिसूरिस्तुतिः ॥ - श्रेविजयनन्दनसूरिः अचिन्त्यचिन्तामणिकल्पशाखिने, विशुद्धसद्ब्रह्मसमाधिशालिने । दयार्णवायाऽर्थितदायिने सतां, नमो नमः श्रीगुरुनेमिसूरये ॥१॥ (वंशस्थम्) जगद्गुरूणां गुरवे महस्विने, महाशयायाऽऽगमतत्त्ववेदिने । परोपकाराय शरीरधारिणे, नमो नमः श्रीगुरुनेमिसूरये ॥२॥ अपीरितं स्वप्नदशासमुद्भवं, प्रसादपुण्येन यदीयदर्शनम् । तनोति नृणामविगीतसम्पदो, नमो नमः श्रीगुरुनेमिसूरये ॥३।। क्षमैकसन्मार्गविभासनक्षमाः, सुवर्णरम्याः स्फुरदर्थभासिनीः । तमःशमा गा दधतेंऽशुमालिने, नमो नमः श्रीगुरुनेमिसूरये ॥४॥ प्रभावभृत् सिद्धिनिधानमद्भुतं, पुरा प्रवृत्तं भरताद्यचक्रिणः । कदम्बतीर्थं पुनरुद्धृतं यतो, नमो नमः श्रीगुरुनेमिसूरये ॥५॥ अनेकभूपैश्च निषेविताञये, गृहीतजीवाभयदानवर्त्मने । सदैव दीनोद्धरणैकचेतसे, नमो नमः श्रीगुरुनेमिसूरये ॥६॥ कृतापराधेऽपि च मादृशे जने, दयाचित्ताय हितैषिणेऽन्वहम् । प्रमोदमैत्रीकरुणात्मदृष्टये, नमो नमः श्रीगुरुनेमिसूरये ॥७॥ सुलक्षणामार्तमनोमनोहरां, प्रसादनीमाकृतिमेव बिभ्रते।। अशेषसौभाग्यगुणश्रियाऽऽश्रितां, नमो नमः श्रीगुरुनेमिसूरये ।।८।। गुरुस्तुतेरष्टकमात्मने हितं, गुरोः शुभाशीर्वचनानुभावतः । प्रभातकाले पठतां सतामिदं, तनोतु सिद्धि सुधियं च सम्पदः ॥९॥

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380