Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 226
________________ श्रमणविद्या २०७ विवहारा सो जीवो व्यहारनयात सो जीवो भण्यते, स कः जस्स विद्यन्ते, के ते चदु पाणा चत्वारः प्राणाः किं नामानाः-इंदियबलमाउप्राणपाणो य इंद्रियप्राणाः बलप्राणाः आयुप्राणः आणपाणप्राणश्च एवं चत्वारो भेदेन । पुनर्दश कथं पंच इन्द्रियपाणादिगाथाप्रथमसूत्रव्याख्यानेन प्रथमोक्तम् । इन्द्रियं पंचेन्द्रियसंज्ञिजीवापेक्षया प्रतिपादितं न पूनः सर्वजीवापेक्षया । कस्मिन् काले ते चत्वारः प्राणाः भवन्ति । तिक्काले अतीतानागतवर्तमानकालत्रयेऽपि, एकेन्द्रियापेक्षया विकल्पः, णिच्छ्यणयदो द निश्चयनयात्पुनः चेयणा जस्स चैतन्यमेवोदयं यस्य । तस्य जीवस्य उपयोगद्वयमाह 4) उवओगो दुवियप्पो सणणाणं च दंसणं चदुधा। ___ चक्खु-अचक्खु-ओही-दसणमह केवलं णेयं ॥ उवओगो दुवियप्पो उपयोगो द्विविधविकल्पः कथमित्याह-दसणणाणं च दर्शनोपयोगो ज्ञानोपयोगश्च, तत्र दर्शनोपयोगः-चदुधा चतुः प्रकारः, कथमित्याहचक्खुअचक्खुओही चक्षुदर्शनं अचक्षुदर्शनं अवधिदर्शनं, अह अथ केवलं केवलदर्शनं चेति, णेयं ज्ञातव्यमिति । अत्र चक्षुर्दर्शनमेकप्रकारम्, अचक्षुदर्शन स्पर्शरसगधश्रोत्रभेदाच्चतुर्भेदम् । ज्ञानमष्टविकल्पं भवतीत्याह 5) णाणं अट्ट वियप्पं मदिसुदिओही अणाणणाणाणि । ____मणपज्जयकेवलमवि पच्चक्खपरोक्ख भेयं च ॥ णाणं अटवियप्पं ज्ञानमष्टविकल्पं भवति, कथम्, मदिसुदिओही अणाणणाणाणि मणपज्जयकेवलमह मतिश्रुतावधिज्ञानानि, कथभूतानि अणाणणाणाणि अज्ञानसंज्ञानानि, मतिश्रुतावधिज्ञानानि, मत्यज्ञान श्रुताज्ञानं अवधि-अज्ञानं विभगज्ञानविज्ञानानि, मनःपर्यय केवलमथानंतरं तत्र विशिष्टमत्यावरणकर्मक्षयादिन्द्रियैमनसा च यज्जानाति तन्मतिज्ञानं षट्त्रिंशतत्रयभेदाः। ३३६ । कि विशिष्टम्, श्रुतज्ञानावरणक्षयोपशमे सति निरूप्यमाणं श्रुतं यज्जानाति तच्छुतज्ञानम्, तन्मतिपूवकं कथम्, यथांकुरो बीजपूर्वकः, तच्च द्विभेदमनेकभेदं च । द्वौ भेदौ तावदुच्येते-अंगबाह्यमंगप्रविष्टं च, अंगबाह्यमनेकविधं दशवैकालिकोत्तराध्ययनादि । अथ चतुर्दशप्रकीर्णकाः सामायिकोत्तरादिपुंडरीकांताः । अंगप्रविष्टं द्वादशांगानि आचारादि । अनेकभेदाः पर्यायादि । विशिष्टावधिज्ञानावरणक्षयोपशमात् मनसोऽवष्टंभेन यत्सूक्ष्मान् पुद्गलान् परिच्छिनत्ति स्वपरयोश्च पूर्वजन्मान्तराणि जानाति, भविष्यजन्मान्तराणि तदवधिज्ञानम्, तद्देशावधि-परमावधि-सर्वावधिभेदात् त्रिविधम् । विशिष्टं क्षयोपशमान्मनसोऽवष्टम्भेन परमनसिस्थितं अर्थ यज्जानाति तन्मनःपर्ययज्ञानम् । तदृजुविपुलमतिविकल्पाद्विभेदम् । ज्ञाना संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262