Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 236
________________ श्रमणविद्या २१७ संति जदो ते णिच्चं, ते पञ्चापि यतः यस्मात् कारणात् नित्यं सन्ति विद्यन्ते, स्वरूपेण । अस्थि ति भणंति जिणवरा तस्मात् कारणात् विद्यन्ते इति जिनवराः वदन्ति । अत्रास्तित्वं साधितम् । जम्हा बहुदेसा, यस्माद्बहुप्रदेशास्ते काया इव शरीराणीव, अत्र कायित्वं साधितम् । तम्हा काया य तस्मात् कायाश्चेति । एवं मिलित्वा अस्थिकाया य, अस्तिकायाश्च भण्यन्ते । अत्रपूर्वपक्षः-ननु कायशब्दः शरीरे व्युत्पादितः, जीवादीनां कथमत्रोच्यते । तेषामुपचारात् अध्यारोप्यते । कुतः उपचारः। यथा शरीरं पुद्गलद्रव्यं प्रचयात्मकं तथा जीवादिष्वपि प्रदेशप्रचयापेक्षया इव काया इति । कालस्याकायत्वं कथमित्याह25) होति असंखा जीवे धम्माधम्मे अणंत मायासे । मुत्ते तिविह पएसा कालस्सेगो ण तेण सो काओ॥' होति असंखा जीवे धम्माधम्मे पदेसा भवन्ति असंख्याताः प्रदेशाः जीवधर्माधर्माणाम् । अणंत आयासे अनन्तप्रदेशा आकाशस्य । मुत्ते तिविह पएसा मूर्ते पुद्गले त्रिविधाः प्रदेशाः संख्याता असंख्याता अनन्ताश्च, कालस्यैकः प्रदेशः, परमाणूणां रत्नराशिवदवस्थितत्वात्, ण तेण सो काओ, तेन कारणेन सः कालः काय संज्ञा न लभते । अत्रपूर्वपक्षः । ननु पुद्गलपरमाणुरप्येकप्रदेशी, तस्यापि कायत्वानुपपत्तेः । अस्य निराकरणार्थमिदमाह 26) एयपदेसो वि अणुगाणाखंधप्पदेसदो होदि । बहुदेसो उवयारा तेण य काओ भणंति सव्वण्हू ॥ णाणाखंधप्पदेसदो वि अणु होदि बहुदेसो उवयारा-नानापुद्गलस्कन्धरूपस्यैकप्रदेशोऽपि अणु बहुप्रदेशोऽपि भवति, कुत उपचारात्, यतस्तस्य पुद्गलस्य परमाणोः पुनरपि स्कन्धरूपत्वे परिणतिरस्ति, कालाणोः पुनः परिणतिर्नास्ति स्कन्धरूपत्वेन, यतो रत्लानां राशय इव ते स्थितास्तस्मात्, तेण य काओ भगंति सव्वण्हू तेन कारणेन च कायत्वं वदन्ति पुद्गलपरमाणोस्तत्त्वज्ञाः । इदानी प्रदेशलक्षणमाह27) जावदियं आयासं अविभागी पुग्गलाणुवट्टद्धं । ___ तं खु पदेसं जाणे सव्वाणुट्ठाणदाणरिहं॥ १. पदेसा। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262