Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
२१८
अवचूरिजुदो दन्वसंगहो तं खु पदेसं जाणे तं खु स्फुटं प्रदेशं जानामि अहम्, तं कं जावदियं आयासं यावत्प्रमाणमाकाशं किं विशिष्टम्, अविभागी पुग्गलाणुवट्टद्ध-अविभागीकृत पुद्गलद्रव्यस्थानदानयोग्यम् । अत्र पूर्वपक्षः-ननु अविभागीकृतपुद्गलद्रव्येण यावदवष्टब्धं रुद्धमाकाशं तत्प्रदेशमुक्तम् । कथं तावत्प्रदेशे सर्वपदार्थानामवगाहना। अत्रोच्यते, आकाशस्यार्थेवगाहनालक्षणत्वात्तादृशी शक्तिरस्ति, एकस्मिन् प्रदेशे जीवादीनां पञ्चानामपि समवायः समाहितं तथापि तस्य तत्परिणामित्वम् । अयमत्र दृष्टान्तः यथा गुह्यनागनिष्क्रमध्ये सुवर्णलक्षेऽपि प्रविष्टे नागस्य तन्मात्रता, तथाकाशप्रदेशस्याप्यवगाहने तादृशी शक्तिरस्ति ।
इदानीं जीवानां पुद्गलसम्बन्धे सति परिणामविशेषसंभवात् पदार्थानाह28) आसवबंधणसंवरणिज्जरमोक्खो सपुण्णपावा जे ।
जीवाजीवविसेसा ते वि समासेण पभणामि ॥' ते वि समासेण पभणामि-तेऽपि संक्षेपेण प्रभणामि, ते के जे ये आसववंधणसंवरणिज्जरमोक्खो सपुण्णपावा जे-आस्रवबंधसंवरनिर्जरामोक्षाः सपुण्यपापाः कथंभूताः, एते जीवाजीवविसेसा अत्र जीवपुद्गलयोविशेषाः । यतो जीवस्य पुद्गलसंबन्धादशुभपरिणामाः तस्मात् पापम्, पापादास्रवस्तस्मात्कर्मबन्धः। कर्मबन्धनिराकरणाय संवर-निर्जरा, संवरनिर्जराभ्यां पुण्यम्, पुण्यात् शुभपरिणतिः, शुभपरिणतेः कर्मक्षयः, कर्मक्षयान्मोक्षः य इति । तत्र शुभाशुभकर्मागमद्वाररूप आस्रवः । आत्मकर्मणोरन्योन्यप्रवेशात् प्रदेशात्मको बन्धः। आस्रवनिरोधो संवरः, एकदेशकर्मक्षयलक्षणा निर्जरा, सकलकर्मक्षयलक्षणो मोक्षः। अव्रतपरित्यागलक्षणं पुण्यम् । मिथ्यात्वप्रवर्तनलक्षणं पापम् ।
इदानीं आस्रवस्वरूपमाह__29) आसवदि जेण कम्मं परिणामेणप्पणो स विण्णेओ।
भावासओ जिणुत्तो दव्वासवणं परो होदि ॥ स विणेओ भावासओ जिणुत्तो-स विज्ञेयो भावास्रवो जिनोक्तः, कः संबन्धी, अप्पणो आत्मनः स कः । आसवदि जेण कम्मं परिणामेण-आस्रवति कर्म येन परिणामेण । दव्वासवणं परो होदि सः भावास्रवो द्रव्यास्रवणे हेतुर्भवति, परिणामेण शुभाशुभरूपेण यदुपाजितशुभाशुभरूपास्रवः, स एव ज्ञानावरणादिस्वरूपेण परिणत एव द्रव्यास्रवो भवतीत्यर्थः ।। १. पभणामो, द्र० सं० वृ० । संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262