Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 242
________________ श्रमण विद्या २२३ सम्मत्तं सम्यक्त्वं भवति, किं तत्, जीवादी सद्दहणं जीवादीनां श्रद्धानरुचिः, रूवमप्पणी तं तु तत् सम्यक्त्वं पुनरात्मनो रूपं नान्यस्य । णाणं सम्मं खु होदि सदि जहि-स्वपरपरिच्छेदकं ज्ञानं नियमेन भवति यस्मिन्सम्यक्त्वे सति, किं विशिष्टं ज्ञानं, दुरभिणिवेसविमुक्कं संशयविमोहविभ्रमविवर्जितं दर्शने सति यज्ज्ञानमुत्पद्यते । तत्कथंभूतमित्याह 42) संसय-विमोह विब्भम-विवज्जियं अप्पपरसरूवस्स । गहणं सम्मण्णाणं सायारमणेयभेयं तु ॥ सम्मण्णाणं सम्यग्ज्ञानं भवति, किं तत् गहणं ग्रहणम् कस्य अप्पपरसरूवस्स आत्मनः स्वरूपस्य परवस्तुनः स्वरूपस्य, कथंभूतं ग्रहणम्, संसयविमोहविब्भमविवज्जियं, संशयः हरिहरादिज्ञानं प्रमाणं जैनं वा, विमोह अनध्यवसायो गच्छत्तृणस्पर्शपरिज्ञानं विभ्रमः शुक्तिकारजतशकलं यद्विज्ञानमिति । तद् ग्रहणं किं विशिष्टम्, सायारमणेयभेयं तु, साकारं सविकल्पं अवग्रहेहावायधारणारूपकमनेकभेदम् च । मत्यादिभेदादर्शनज्ञानयोः को भेद इत्याह 42) जं सामण्णं गहणं भावाणं णेव कट्टुमायारं । अविसेसऊण अट्ठे दंसणमिदि भण्णए समए , समिदि भणये समए तद्दर्शनमितिहेतोर्भण्यते, क्व समये जिनागमे, तकि, जं सामण्णं गहणं, यत् सामान्यग्रहणं वस्तुसत्तावलोकनं करोति केषां भावाणं पदार्थानां किं त्यक्त्वा, अविसेसऊण अट्ठे - अविशेष्यार्थान् भेदमकृत्वा इदं कृष्णमिदं नीलमित्यादिपरिच्छित्ति । अत्राह परा ननु दर्शनं तावत्स्वभावभासकं ज्ञानं च परार्थावभासकं भिन्नानां भावानां सामान्यग्रहणमिति, दर्शनस्य कथं घटते, यतस्तदवलोकनेज्ञानस्य प्रयोजनम् अत्र निराकरणार्थमिदमाह णेव कट्टुमायारं यतो दर्शनम्, प्रथमसमये नैव कर्तुं शक्नोति, भेदमित्थभूतमिति, जलस्नानोत्थितपुरुषसम्मुखवस्त्ववलोकनवत् । अतो दर्शनं भण्यते किंचिदन्ये तत्प्रयोजनं ज्ञानस्य न पुनः वस्तुसंज्ञावलोकनं, तस्मात्स्वपरावभासकं दर्शनं किन्तु निर्विकल्पं ज्ञानं पुनः स्वपरावभासकं यतः अवग्रहावायधारणा अग्रे समुत्पद्यन्ते । इदानीं दर्शनपूर्वकं ज्ञानमाह 9 १. अविसेस | Jain Education International 44) दंसणपुव्वं गाणं छदमत्थाणं ण दोष्णि उवओगा । जुगवं जहा केवलिणाहे जुगवं तु ते दो वि ॥ For Private & Personal Use Only संकाय पत्रिका - २ www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262