Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
२१५
श्रमणविद्या यति कुतो अथ, अच्छंताणेव सो णेइ, धर्मस्तेषां अच्छंतां तान् जीवपुद्गलान् स्थिति कुर्वतां न नयति, कुतो अधर्मद्रव्योदयात्, अस्यैवार्थस्य समनार्थमुपमानमाह, तोयं जह मच्छाणं, यथा तोयं पानीयं मत्स्यानां सहकारित्वे भवति स तान्मत्स्यान् स्थितिकुर्वतो न नयति, एवं धर्मः।
पुद्गलजीवान्नपि स्थितिकारित्वेऽधर्मो भवतीत्याह18) ठाणजुयाण अहम्मो पुग्गलजीवाण ठाण सहयारी।
छाया जह पहियाणं गच्छंता व सो धरई ॥' ठाण सहयारी स्थितिः सहकारी भवति कोऽसौ, अहम्मो, अधर्मः, केषां, पुग्गलजीवाण, पुद्गल जोवानां, कथंभूतानां, ठाणजुयाण स्थितिकर्मोदयात् स्थिति कुर्वतां, अत्राह, यदि तस्य स्थितिकारित्वे तादृशी शक्तिरस्ति, तदा गच्छंतास्तान् किन्न स्थितं कारयति, अत्रोच्यते-गच्छंताणेव सो धरई, स अधर्मो गच्छंतान् नैव धरति तान् जोवयुद्गलानां गच्छंतान् नैव स्थिति कारयति, कुतो धर्मद्रव्योदयात्, अस्यैः वार्थस्य समर्थनार्थमुपमानमाह छाया जह पहियाणं, यथा छाया पथिकान स्थिति सहकारित्वे भवति सति तान् पथिकान् गच्छतोऽपि न स्थिति कारयति एवमधर्मः पुद्गलजीवानामपि ।
इदानीं पंचानामपि द्रव्याणामवकाशदाने आकाशद्रव्यं भवतीत्याह____19) अवगासदाणजोग्गं जीवाईणं वियाण आयासं ।
जोण्हं लोगागासं अल्लोगागासमिदि दुविहं ॥२ वियाण विशेषेण जानीहि त्वं हे भव्य ! किं तत् । आयासं आकाशं कथंभूतम् । अवगासदाणजोग्गं अवकाशदानयोग्य, केषां जीवाईणं जोवादीनां पंचानामपि तदाकाशं, जोण्हं जैनमते, दुविहं द्विप्रकारं कथं लोगागासं अलोगागासमिदि लोकाकाशमलोकाकाशमिति, तदेवाकाशद्रव्यम् ।
लोकालोकप्रकारेण द्विप्रकारं भवतीत्याह20) धम्माधम्माकालो पुग्गलजीवा य संति जावदिए।
आयासे सो लोगो तत्तो परदो अलोगुत्तो॥ सो लोगो सः लोको भवति, सः कः, जावदिए आयासे संति, यावत्परिमाणे आकाशे संति विद्युते के ते, धम्माधम्माकालो धर्माधर्मकालाः । न केवर मेते पुग्गलजीवा य पुद्गलजीवाश्च, तत्तो परदो अलोगुत्तो, तस्मात् परो अलोक उक्तः । १. ठाणजुदाण, अधम्मो, । २. जीवादीणं, जेण्ह,।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262