Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
श्रमणविद्या
२११
द्वित्रिचतु पंचेन्द्रिया त्रससंज्ञाजीवाः शंखादयो ज्ञेयाः । अत्र द्वींद्रियाः शंखादयाः । तेषां कति प्राणाः । षट् प्राणाः, पूर्वोक्ताश्चत्वारो रसनभाषा द्वे, एते पर्याप्ता अपर्याप्ताः । अत्र पर्याप्तस्य आहारशरीरस्पर्शनेंद्रियाणप्राणभाषाः पंच, मनसोऽभावः । अपर्याप्तस्य चत्वारः पर्याप्तयः भाषाया अभावः । त्रींद्रियाः कुंथुमत्कुणादयः, प्राणाः सप्त । पूर्वोक्ताः पट् प्राणाः घ्राणश्च । एते पर्याप्तापर्याप्ताः । अत्र पर्याप्तस्य पर्याप्तयः पंच मनसोऽभावः । अपर्याप्तस्य पूर्ववत् चत्वारः । चतुरिंद्रियस्य प्राणाः अष्टो, पूर्वोक्ताः सप्त चक्षुप्राणश्च । एते पर्याप्तापर्याप्ताः । अत्र पर्याप्तस्य पर्याप्तयः पंच । मनसोऽभावः । अपर्याप्तस्य पूर्ववच्चत्वारः । पंचेंद्रियस्य तिर्यञ्चसंज्ञिनां प्राणा नव । पूर्वोक्ताष्टौ श्रोत्रप्राणश्च । एतेपर्याप्तापर्याप्ताः । अज्ञपर्याप्तस्य पर्याप्तयः पंच, मनसोऽभावः । अपर्याप्तस्य पूर्ववत् चत्वारः । पंचेन्द्रियस्य संज्ञिनः प्राणाः दश, पूर्वोक्ता नव मनोबलप्राणश्च । एते पर्याप्तापर्याप्ताश्च । पर्याप्तस्य पर्याप्तयः षट् । अपर्याप्तस्य पर्याप्तयश्चत्वारः । भाषामनसोऽभावः । ते च जीवाः समनस्का अमनस्काश्च भवतीत्याह-समणा अमणा णेया पंचिदिया समनस्का अमनस्काश्च भवति । तत्र तियंचसमनस्का अमनस्काश्च । ये अमनस्कास्ते गोरखरादयो जालंधरमरुदेशादिषु देशेषु दृश्यन्ते । णिम्मणा परे सव्वे एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रिय- निर्मनसः । ननु ते अमनस्कास्तदा कथ्यन्ते । तेषां पंचेन्द्रियाप्रवृत्तिर्यतो मनः पूर्वकेन्द्रियप्रवृत्तिरिति शास्त्रवचनम् । अत्रोत्तरमाह - सर्वेषामेव जीवानां स्वभावत एवाहारभयमैथुनपरिग्रहस्वरूपसंज्ञाचतुष्टयं विद्यत एव प्रतीतश्च दृश्यते । यथा वृक्षस्य जलसिंचनाद् वृद्धिः । कुठारायुधपुरुषदर्शनात्कम्पः । वनिताचरणत्राटक नात्पुष्पनिर्गमो वृक्षमूलप्ररोहावष्टम्भनिधानग्रहणमिति । तस्मात्तेषां मनोव्यापाररहिता प्रवृत्तिः पुनः प्रोच्यते । तेषां सर्वथा मनसोऽभाव इति न, किन्तु शक्तिरूपत्वेन नास्ति । कुतः, पूर्वोपार्जितमतिज्ञानावरण कर्मोदयवशात् । सर्वथा यदि मनसो अभावो भण्यते, तदा अन्य जन्मनि मनुष्यपर्याये गृहीते सति विमनस्कत्वमायाति । एवं सति सर्वज्ञवचनविरोधः स्यात् । यतः सुरनरनेरइया समनस्का: आगमे प्रतिपादिताः । तिर्यंचो विकल्पनीयाः । तस्मात् कर्मोदयवशात् व्यवहारनयापेक्षया तेषाममनस्कत्वं न परमार्थतः, इति स्थिते च । मार्गणागुणस्थानैः संसारिणो ज्ञातव्या, इत्याह
13) मग्गणगुणठाणेहि य चउदसहि हवंति तह असुद्धणया ।
विष्णेया संसारी सव्वे सुद्धा हु सुद्धणया ॥
ते च जीवा चतुर्दशमार्गणाभिश्चतुर्दशगुणस्थानैश्च ज्ञातव्या भवन्ति । कथंभूताः संसारिणा । कदा असुद्धणया । असुद्धणयापेक्षया हु पुनः । सव्त्रे सुद्धा शुद्धनिश्चयनयापेक्षया सर्वे जीवाः शुद्धाः । अनन्तचतुष्टयात्मका इत्यर्थः । मार्गणाः प्राह
1
" गइ इंदियं च काए जोए वेए कसायणाणे य ।
संयमदंसणलेस्सा भविया सम्मत्तसणिआहारे ॥" (गो० जी० १४२ ) ।
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262