Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 228
________________ श्रमणविद्या २०९ स आदा पभुजेदि स आत्मा प्रभुङ्क्ते किं तत, पुग्गलकम्मप्फलं पुद्गल. सम्बन्धात्कर्मणः फलं सः चेतनानां कर्मणामित्यर्थः । किं फलं सुहदुक्खं सुखं दुःखं च, भुङ्क्ते, कदा भुङ्क्ते ववहारा व्यवहारनयापेक्षया, णिच्छयदो निश्चयनयापेक्षया पुनः चेदणभावं खु आवस्स आत्मनः परमानंदस्वरूपतामुपभुक्ते स्फुटम् । स आत्मा व्यवहारपरमार्थापेक्षयेत्थं प्रमाण इति वदन्नाह____10) अणुगुरुदेहपमाणो उवसंहारप्पसप्पदो चेदा। असमुहदो ववहारा णिच्छयणयदो असंखदेसो वा ॥ चेदा अणुगुरुदेहपमाणो, स आत्मा व्यवहारनयमासृत्य सूक्ष्मस्थूलदेहप्रमाणो यदा कर्मवशात् कुंथुपर्यायं ग्रह्णाति, तदा तद्देहप्रमाणः यदा हस्तिप्रमाणं पर्यायं गृहणाति तदा तद्देहप्रमाणः। कुतः, उवसंहारप्पसप्पदो उपसंहारप्रसर्पणतः, यत उपसंहारविस्तारधर्मो ह्यात्मा, कोऽत्र दृष्टान्तः । यथा प्रदीपो महद्भाजनप्रच्छादितस्तद्भाजनांतरं प्रकाशति, लघुभाजनपृच्छादितस्तद्भाजनान्तरं प्रकाशयति इति । किंतु असमुहदो समुद्घातसप्तकं वर्जयित्वा, तत्राणुगुरुत्वाभावः । समुद्घातभेदानाह “वेयण-कसाय-विउवण तह मारणंतिओ समुग्धाओ। तेजाहारो छट्ठो सत्तमओ केवलीणं तु ॥" [गो० जी० ६६७] समुद्घातलक्षणमाह "मूलशरीरमछंडिय उत्तरदेहस्स जीवपिंडस्स । णिग्गमणं देहाद. हवदि समुग्धादयं णाम ॥" [गो० जी. ६६८] तत्प्रत्येकं यथा-तीनवेदनानुभवन्मूलशरीरमत्यक्त्वा आत्मप्रदेशानां वहिन्निर्गमनमिति वेदनासमुद्घातः । तीव्रकषायोदयात्मूलशरीरमत्यक्त्वा परस्य घातार्थमात्मप्रदेशानां वहिन्निर्गमनमिति कषायसमुद्घातः। मूलशरीरमत्यज्य किमपि विकुर्वयितुमात्मप्रदेशानां वहिन्निर्गमनमिति विकुर्वणासमुद्घातः । मारणांतिकसमये मूलशरीर. मत्यज्य. यत्र कुत्रचिबद्धमायुस्तत्प्रदेशं स्पृष्टुमात्मप्रदेशानां वहिनिर्गमनमिति मारणांतिकसमुद्घातः । स्वस्य मनोऽनिष्टजनकं किंचित्कारणांतरमवलोक्य समुत्पन्नक्रोधस्य संयमनिधानस्य महामुनिर्मूलशरोरमत्यज्य सिंदूरपुंजप्रभो दीर्घत्वेन द्वादशयोजनप्रमाणः सूच्यंगुलसंख्येयभागो मूलविस्तारः नवयोजनाग्रविस्तारः काहलाकृति पुरुषो वामस्कन्धानिर्गत्य वामप्रदक्षिणेन हृदयनिहितं विरुद्धं वस्तु भस्मसात्कृत्य तेनैव संयमिना सह स च भस्मतां व्रजति, द्वीपायनवत् । असावशुभरूपस्तेजः समुद्घातः । लोकं व्याधिदुर्भिक्ष्यादिपीडितमवलोक्य समुत्पन्नकृपस्य परमसंयमनिधानस्य महर्षे. संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262