________________
श्रमणविद्या
२०७
विवहारा सो जीवो व्यहारनयात सो जीवो भण्यते, स कः जस्स विद्यन्ते, के ते चदु पाणा चत्वारः प्राणाः किं नामानाः-इंदियबलमाउप्राणपाणो य इंद्रियप्राणाः बलप्राणाः आयुप्राणः आणपाणप्राणश्च एवं चत्वारो भेदेन । पुनर्दश कथं पंच इन्द्रियपाणादिगाथाप्रथमसूत्रव्याख्यानेन प्रथमोक्तम् । इन्द्रियं पंचेन्द्रियसंज्ञिजीवापेक्षया प्रतिपादितं न पूनः सर्वजीवापेक्षया । कस्मिन् काले ते चत्वारः प्राणाः भवन्ति । तिक्काले अतीतानागतवर्तमानकालत्रयेऽपि, एकेन्द्रियापेक्षया विकल्पः, णिच्छ्यणयदो द निश्चयनयात्पुनः चेयणा जस्स चैतन्यमेवोदयं यस्य ।
तस्य जीवस्य उपयोगद्वयमाह
4) उवओगो दुवियप्पो सणणाणं च दंसणं चदुधा।
___ चक्खु-अचक्खु-ओही-दसणमह केवलं णेयं ॥
उवओगो दुवियप्पो उपयोगो द्विविधविकल्पः कथमित्याह-दसणणाणं च दर्शनोपयोगो ज्ञानोपयोगश्च, तत्र दर्शनोपयोगः-चदुधा चतुः प्रकारः, कथमित्याहचक्खुअचक्खुओही चक्षुदर्शनं अचक्षुदर्शनं अवधिदर्शनं, अह अथ केवलं केवलदर्शनं चेति, णेयं ज्ञातव्यमिति । अत्र चक्षुर्दर्शनमेकप्रकारम्, अचक्षुदर्शन स्पर्शरसगधश्रोत्रभेदाच्चतुर्भेदम् । ज्ञानमष्टविकल्पं भवतीत्याह
5) णाणं अट्ट वियप्पं मदिसुदिओही अणाणणाणाणि । ____मणपज्जयकेवलमवि पच्चक्खपरोक्ख भेयं च ॥
णाणं अटवियप्पं ज्ञानमष्टविकल्पं भवति, कथम्, मदिसुदिओही अणाणणाणाणि मणपज्जयकेवलमह मतिश्रुतावधिज्ञानानि, कथभूतानि अणाणणाणाणि अज्ञानसंज्ञानानि, मतिश्रुतावधिज्ञानानि, मत्यज्ञान श्रुताज्ञानं अवधि-अज्ञानं विभगज्ञानविज्ञानानि, मनःपर्यय केवलमथानंतरं तत्र विशिष्टमत्यावरणकर्मक्षयादिन्द्रियैमनसा च यज्जानाति तन्मतिज्ञानं षट्त्रिंशतत्रयभेदाः। ३३६ । कि विशिष्टम्, श्रुतज्ञानावरणक्षयोपशमे सति निरूप्यमाणं श्रुतं यज्जानाति तच्छुतज्ञानम्, तन्मतिपूवकं कथम्, यथांकुरो बीजपूर्वकः, तच्च द्विभेदमनेकभेदं च । द्वौ भेदौ तावदुच्येते-अंगबाह्यमंगप्रविष्टं च, अंगबाह्यमनेकविधं दशवैकालिकोत्तराध्ययनादि । अथ चतुर्दशप्रकीर्णकाः सामायिकोत्तरादिपुंडरीकांताः । अंगप्रविष्टं द्वादशांगानि आचारादि । अनेकभेदाः पर्यायादि । विशिष्टावधिज्ञानावरणक्षयोपशमात् मनसोऽवष्टंभेन यत्सूक्ष्मान् पुद्गलान् परिच्छिनत्ति स्वपरयोश्च पूर्वजन्मान्तराणि जानाति, भविष्यजन्मान्तराणि तदवधिज्ञानम्, तद्देशावधि-परमावधि-सर्वावधिभेदात् त्रिविधम् । विशिष्टं क्षयोपशमान्मनसोऽवष्टम्भेन परमनसिस्थितं अर्थ यज्जानाति तन्मनःपर्ययज्ञानम् । तदृजुविपुलमतिविकल्पाद्विभेदम् । ज्ञाना
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org