________________
अवचूरिजुदो दब्वसंगहो
वरणीयमोहनीयान्तरायरूपघाति कर्मचतुष्टयनिर्मू लोन्मूलनात् वेदनीयायुगोत्रनामकर्मणां दग्धरज्जुवत् स्थिते यदुत्पन्नं त्रैलोक्योदरवर्तिसमस्तवस्तुयुगपत्सकलपदार्थप्रकाशकमसहाय तत्केवलज्ञानम् । अत्र मतिश्रुते परोक्षे अवधिमन:पर्यये देशप्रत्यक्षे, केवलं सकलप्रत्यक्षमिति ।
२०८
तस्य जीवस्य सामान्येन व्यवहारलक्षणं विशेषेण निश्चयलक्षणं चाह— 6) अट्ठ चटु णाणदंसणसामण्णं जीवलक्खणं भणियं । ववहारा सुद्धणया सुद्धं पुण दंसणं गाणं ॥
जीवलक्खणं भणियं जीवानां लक्षणं स्वभावो भणितम्, कथंभूतं सामण्णं सामान्यम् । अयमर्थः - केषांचित् शक्तिरूपेण केषांचित् व्यक्तिरूपेण विद्यमानत्वात् । कदा सामान्यं ववहारणया व्यवहारनयापेक्षया किं लक्षणं अटू चटु णाणदंसण अष्टप्रकारं ज्ञानं चतुःप्रकारं दर्शनम् एते व्याख्येते प्रागेव । सुद्धं पुण दंसणं जाणं शुद्धनयापेक्षया शुद्धं पुनर्दर्शनं ज्ञानं च, दृष्टत्वं ज्ञातृत्वम् च ।
स च जीवो मूर्तिर्भवत्यमूर्तिश्चेत्याह
7) वण्ण रस पंच गंधा दो फासा अट्ठ पिच्छया जीवे । णो संति अमुत्ति तदो ववहारा मुत्ति बंधादो ॥
सो जीव अत्ति तो अमूर्तिः ततः कारणाद्यस्मान्नो संति नैव विद्यन्ते । के ते वण्णरसपंच गंधा दो फासा अट्ठ, वर्णाः पंच रक्तपीतनील कृष्णश्वेताः । रसाः पंच कटुतिक्तकषायमधुरलवणाम्लाः । गंधौ द्वौ सुरभिदुरभिश्च । स्पर्शाः अष्ट मृदुकर्कश - गुरुलघुस्निग्धरूक्षशीतोष्णाः एते न संति, कदा न संति, णिच्छया निश्चयनयापेक्षया, ववहारा व्यवहारनयापेक्षया पुनः मुक्ति मूर्तियुक्तः उक्तः ।
बंधादौ कर्मनो कर्मबंधवशात् सः व्यवहारकर्ता परमार्थकर्ता च भवतीत्याह8) पुग्गलकम्मादीणं कत्ता ववहारदो दु णिच्छयदो । चेदणकम्माणादा सुद्धणया सुद्धभावाणं ॥
स आदा आत्मा, कत्ता कर्ता भवति । कदा ववहारा दो व्यवहारनयापेक्षया, केषां कर्ता, पुग्गलकम्मादीणं पुद्गलकर्मादीनां णिच्छ्यदो निश्चयनयापेक्षया, दु पुनः, चेदणकम्माण चेतनकर्मणां क्रोधादीनां कर्ता शुद्धनयापेक्षया शुद्धभावानाम्, अनन्तदर्शनज्ञानवीर्यसुखानामुत्तरोत्तर प्रकृष्टपरिणामानां कर्ता ।
स च व्यवहारभोक्ता भवतीत्याह
9) ववहारा सुहदुक्खं पुग्गलकम्मप्फलं पभुंजेदि । आदा णिच्छयणयदो चेदणभावं खु आदस्स ॥
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org