________________
२०६
अवचूरिजुदो दव्वसंगहो द्विविधः, अणुरूपः स्कन्धरूपश्च, अत्र साधारणगुणाः अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वं अगुरुलघुत्वं प्रदेशत्वं अचेतनत्वं मूर्तित्वम् चेति । असाधारणाः स्पर्शरसरूपगन्धवर्णाः पर्यायाः गलनपूरणस्वभावः, घटितस्य पुनः स्तंभादेः गलनपूरणं नास्ति । कथं नास्ति संप्रति सूत्रतंतुना स्तंभस्य मानं गृह्यते, वर्षशतेनापि पुनस्तन्मात्रं भूमौ स्थितानां दृश्यते । धर्मद्रव्यस्य साधारणगुणाः, अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वं अगुरुलघुत्वं प्रदेशत्वं अमूर्तत्वमचेतनत्वं चेति । असाधारणाः जीवपुद्गलयोर्गतिसहकारित्वम्, पर्याया उत्पादव्ययाः । अधर्मद्रव्यस्य साधारणगुणाः-अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वं अगुरुलघुत्वं प्रदेशत्वममूर्तत्वमचेतनत्वं चेति । असाधारणाः जीवपुद्गलयोः स्थितिसहकारित्वम्, पर्याया उत्पादव्ययाः। कालद्रव्यस्य साधारणगुणाः-अस्तित्वादयः पूर्वोक्ताः ज्ञातव्याः, असाधारणः द्रव्याणां परिणमयितृत्वम् । आकाशद्रव्यस्य साधारणगुणाःअस्तित्वं वस्तुत्वं द्रव्यत्वं अमूर्तत्वं प्रदेशत्वं अचेतनत्वं चेति । असाधारणाः सकलपदार्थानामवकाशदायक इति प्रतिपादिते सति उत्सादव्ययध्रौव्यात्मकं वस्तुप्रतिपादित कथितम् । इदानीं जीवस्वरूपमाह2) जीवो उवओगमओ अमुत्ति कत्ता सदेहपरिमाणो।
भोत्ता संसारत्थो सिद्धो सो विस्ससोड्ढगई॥ जीवोऽस्ति चेतनालक्षणः स्वपररूपसंवेदकः तथा उवओगमओ उपयोगमयः ज्ञानदर्शनलक्षणोपयोगेन युक्तः । अनेन प्रकृतिगुणाः ज्ञानादय इत्यपास्तं मोक्षे ज्ञानाद्यभाव इति च । तथा अमुक्ति अमूर्तिः कर्मनोकर्मभिः सदा संबन्धेऽपि नैव मूर्तिः स्वकीयस्वभावस्तु अमूर्तस्वरूप-अपरित्यागात् तथा कत्ता कर्ता, केषां कर्मणां तन्निमित्तात्मपरिणामानां च कर्ता । अनेन प्रकृतेरेव कर्मकर्तृत्वं नात्मन इत्येकांतो निरस्तः । तथा सदेहपरिमाणो नामकर्मोदयवशादुपात्ताणुमहच्छरीरप्रमाणो न न्यूनो नाप्यधिकः । अनेनात्मनः सर्वगतत्वं वटकणिकामात्रं च प्रत्याख्यातम् । तथा भोत्ता भोक्ता केषां शुभाशुभकर्मसंपादितेष्टानिष्टविषयाणां तत्प्रभवसुखदुखपरिणामानां च । तथा संसारस्थो त्रसस्थावरपर्यायैर्युक्तः संसारे संसरतीति । तथा सिद्धो सो सः प्रागुक्तात्मा सकलकर्मक्षयात् सिद्धो भवति । पुनः किं विशिष्टः विस्ससोडढगई सिद्धः सन् विश्वस्य त्रैलोक्यस्योवं गच्छति अथवा विश्वस्य स्वभावेन ऊध्वं गच्छति । किंचन एरण्डबीजवत्, अग्निशिखावच्च, जलमध्ये आलाबुवदिति । अनेन यत्रैव मुक्तस्तत्रैव स्थित इति निरस्तः । अत्रौदारिकवैक्रियिकाहारकतैजसकार्माणशरीराणि नोकर्म । सो जीवो व्यवहाररूपतया परमार्थरूपतया च द्विविध उच्यते, इत्याह3) तिक्काले चदुपाणा इंदियबलमाउ आणपाणो य ।
विवहारा सो जीवो णिच्छयणयदो दु चेयणा जस्स ॥ संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org