Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 129
________________ भार्यारजोदर्शनरूपे श्राद्धविघ्ने निर्णयः । १९३ २. श्राद्धं तत्र न कर्त्तव्यं कर्तव्यं पञ्चमेऽहनि ।। इति । तदपुत्रस्त्रीकर्त्तृकश्राद्धविषयम् । तथाच यस्य भार्या रजस्व - लेत्यस्यायमर्थः । यस्य श्राद्धकर्त्री भार्या रजस्वलेति । तथाच -- श्लोक गौतमः, अपुत्रा तु यदा भार्या सम्प्राप्ते भर्तुराब्दिके । रजस्वला भवेत्सा तु कुर्यात्तत्पञ्चमेऽहनि ॥ इति । पाराशरीये प्रभासखण्डेऽपि शुद्धा स्यात्तु चतुर्थेऽहि स्नानाभारी रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ॥ इति । असावेव पक्षः कालादर्श पराशर माधव प्रयोग पारिजात विवेचनकारसिन्धुकारादीनां सम्मतः । हेमाद्रिस्तु " पाणिग्रहणाद्धि सहत्वं सर्वकर्मसु " इति वचनेन भार्याया अपि श्राद्धे सहाधिकारात्तस्यां रजस्वलायामशुचित्वेनानधिकारे व्यासज्यवृत्ते भर्तृगतस्याधिकारस्य विधातात्पश्च मदिने एव श्राद्धं युक्तम् । तदर्थं यस्य श्राद्धकर्त्तुरित्येवार्थो मृतेऽहनीति वचनस्य । "पुष्पवस्वपि दारेषु" इत्यादीनि वचनानि सहाधिकृतभार्यान्तरविषयाणीत्याह । तन्मन्दम् | "जायापती अग्निमादधीयाताम्" इत्यादिना आधाने सहाधिकारादाधान सिद्धाग्निसाध्य कर्मस्वपि सहाधिकारसिद्धेः " पाणिग्रहणाद्धि" इतिवचनमणीतस्य सहाधिकारस्योभयसंयोगेनोत्पन्नश्रौतस्मार्त्ताग्निसाध्यकर्मस्वेव न्याय्यत्वात् । श्रा द्धकर्मणि निरग्नीनामप्यधिकाराच्छ्राद्धकर्मणः पत्नी साध्य कर्माघटितत्वाच्च । तस्मादेकभार्यः साग्निकोऽपि तस्यां रजोवत्यामन्नेन मृताह एवाब्दिक मासिकश्राद्धे कुर्यात् । श्राद्धकर्त्री स्त्री चेद्रजस्वला तदाब्दिकं मासिकं च पञ्चमदिनादौ कुर्यात् अमावास्यानिमित्तं तु तस्या लुप्यत एवेति । श्रीमातामहगुरवस्तु हेमायनुसारेण मृताहनीतिवचनात्कतुर्भार्यायां रजस्वलायां सत्यां पञ्चमदिने एव १५ श्रा० चं० ·

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192