Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 159
________________ सपुत्रयाविषयायतिभिरपितीर्थ श्राद्धंनकर्तव्यम् । १४३ __ अत्र पूर्वोक्ता प्रतिपत्तिर्न भवति सदाशब्दग्रहणात् । तीर्थ. श्राद्धं जीवपितृ केणापि कार्यमित्युक्तं जीवपितृकाधिकारविचारे प्राक् । तथा विभक्तभ्रातृणां युगपत्तीर्थप्राप्तौ ज्येष्ठ एव कुर्यात् । गयायां तु सर्वेऽविभक्ता अपि पृथक् पृथक् गयाश्राद्धमाचरेयुरित्यप्यभ्यधायि प्राविभक्ताभक्तनिर्णये । गयायां ज्येष्ठोऽपि कनिष्ठाय श्रापिण्डं दद्यात् । ___ गयायां च विशेषेण ज्यायानपि समाचरेत् । इति बौधायनोक्तः । अत्र गयापदं तीर्थमहालयादेरुपल. क्षकं स्मृत्यन्तरात् । यत्तु न च माता न च पिता कुर्यात्पुत्रस्य पैतृकम् । । न चाग्रजश्व कुर्वीत भ्रातृणां च कनीयसाम् ॥ इति पितृकर्मणो ज्येष्ठानां निषेधः स कनिष्ठानां पुत्रायधि. कारिसद्भावे औ_देहिकनिषेधपरो बोध्यः । अन्यथा तत्रापि न । पूर्वोक्त - "उत्सनबान्धवम्" इति सुमन्तुवचनान्महादोष. श्रवणात् । श्राद्धमन्यद्वा सपुत्रा विधवा नैव कुर्यात् । सपुत्रया न कर्चव्यं भतुः श्राद्धं कदाचन । इति निषेधात् । यतिरपि न कुर्वीत-- न कुर्यात्सूतकं भिक्षुः श्रादापण्डोदकक्रियाम् । त्यक्तं सन्न्यासयोगेन गृहधर्मादिकं व्रतम् ॥ गोत्रादिचरणं सर्व पितृमातृकुलं धनम् । इति स्मृतेः । गयायां विशेषोवायवीये-- दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः । दण्डं स्पृष्ट्वा विष्णुपदे पितृभिः सह मुच्यते ॥ स्पृष्दैत्यन्तर्गतणिजर्थोऽयम् । स्पर्शयित्वेत्यर्थः। .

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192