Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 177
________________ शुद्र श्राद्धप्रयोगः। १५१ ' इति । अथवा स्वकुलवृद्धसम्प्रदाय विचार्य कार्य इति । मारि. ताग्नेस्तु दक्षिणाग्नाव श्रपणं होमश्च। "आसादयेदभिघार्य स्था. लीपाकम्" इति श्रौतसूत्रे वृत्तिकृता दक्षिणाग्नेः पश्चात्समापयेदिति व्याख्यानादित्यलम् । इत्योपासनाग्निमतः पिण्डपितृयज्ञ व्यतिषक्तदर्शश्राद्धप्रयोगः। अथ महालयोपयुक्ताः षोडशी श्लोकाः । आब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीया। वंशद्वयेऽस्मिन्मम दामभूता भृत्यास्तथैवाश्रितसेवकाश्च ॥ मित्राणि सख्यः पशवश्च वृक्षा दृष्टाश्च पृष्टाश्च कृतोपकाराः। जन्मान्तरे ये मम सङ्गताश्च तेभ्यः स्वधा पिण्डमहं ददामि ।। पितृवंश मृता ये च मातृवंशे तथैव च । गुरुश्वशुरबधूनां ये चान्ये बान्धवाः स्मृताः ।। ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः । क्रियालोपगताश्चैव जात्यन्धाः पङ्गवस्तथा ॥ विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम । धर्मपिण्डो मया दत्तो बक्षय्यमुपतिष्ठतु ।। असिपत्रवने घोरे कुम्भीपाके च ये गताः । तेषामुदरणार्याय इमं पिण्डं ददाम्यहम् ॥ उच्छिन्नकुलवंश्यानां येषां दाता कुले न हि । धर्मपिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठतु ॥ एते श्लोका महालय पिण्डदानोत्तरमत्रपितरोमादयध्वमित्य. स्मात्सा पठनीयाः । वेणुसम्भवनिनादमाहिता गोपिकास्तटमुपेत्य यामुमम् । येन सार्धपरमन्त संभ्रमात्तं भजामि वसुदेवनन्दनम् ॥ प्रसङ्गादत्र शुद्राणां प्रयोगः श्राद्धकर्मणः । विलिख्यते विलोक्याथ तद्धर्मान्मुनिभाषितान् ॥ २१ श्रा० च.

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192