Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 182
________________ श्राद्धचन्द्रिकायाम् अथ प्रयोगः। तण्डुलादिचूर्णनिर्मितेऽष्टदले तिलप्रस्थं निधाय तस्मिन् सास्तीर्णशय्यायाः समन्तान्मूलवाक्योक्तानि कुम्भादीनि सं. स्थाप्य ॐअधेत्यादि अमुकगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्तिपूर्वकाप्सरोगणसेवायुतविमानारोहणपूर्वकेन्द्रपुरगमनोत्तरषष्टिसहस्रवर्षतदधिकरणकक्रीडनस्त्रीहस्रसम्बरणसहितस्वर्गलोकमहितत्वतदुत्तरषष्टियोजनमण्डलराज्यानन्तरपरब्रह्मक्यकाम: प्रे. तशय्यां दास्ये इति सङ्कल्प्य सपत्रीक विमं शय्यां तण्डुलोपरि मुवर्णप्रतिमायां प्रेतं च सपूज्य शय्यां प्रदक्षिणीकृत्य नमः प्र. माण्यै देव्य इति चतुर्दिक्षु प्रणम्य तिथ्यागुल्लिख्यामुकगोत्र. स्येत्यादिकामान्तं पूर्वोक्तं सङ्कल्पवाक्यं पठित्वामुकगोत्रायामुक. शर्मणे ब्राह्मणाय सपत्रीकायेमां शय्यामीशानादिकोणचतुष्टयसं. स्थापितघृतकुङ्कुमगोधूमजलपूर्णपात्रामुच्छीर्षकप्रदेशस्थापितघृतपूर्णकलशां हंसतुलीपच्छन्नां शुभगण्डोपधानिका प्रच्छादनपटीसप्रधान्यताम्बूलादर्शकुङ्कुमक्षोदकर्परागुरुचन्दनदीपिकोपानच्छत्रासनचामरव्यजनभोजनजलपात्रपञ्चवर्णवितानप्रेतप्रतिमायुताम: गिरोदेवताममुकगोत्रोऽमुकशाह सम्प्रददे न ममेति शय्योपवे. शितद्विजहस्ते कुशोदकं क्षिपेत् । तत इमं मन्त्रं पठेव-- यथा न कृष्ण ! शयनं शुन्यं सागरजातया। शय्या तस्याप्यशुन्यास्तु तथा जन्मनि ॥ यस्मादशुन्यं शयनं केशवस्य शिवस्य च । शय्या तस्याप्य० तस्य प्रेतस्येत्यर्थः । अनन्तरं हिरण्यं दक्षिणां दत्त्वा मणिपत्य विनं विसर्जयेत् । इति प्रेतशय्यादानप्रयोगः॥

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192