Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 187
________________ अनुक्रमणिका. श्रादेषु सधवानां तु सुवासिन्यपि कीर्तिता ॥ असमर्थस्य सङ्कल्पश्राद्धमुक्तं ततः परम् ॥ २६ ॥ आमश्राद्धादिकालोऽथ मुहूता दिननक्तयोः । महालयस्ततः प्रोक्तः प्रौष्ठपद्यादिकं ततः ॥ २६॥ त्रिभागहीनपक्षाश्च कन्यास्थाकंप्रशंसनम् । पिण्डदाननिषेधस्य घस्रा: प्रोक्ताः समासतः ॥ २७ ॥ सकुन्महालये सर्व निषेधादिकमित्यपि । विधवाकर्तृके श्राद्ध विशेषः पार्वणेषु च ॥ २८ ॥ भरणीश्राद्धमुदितं नवमीश्राद्धमेव हि ।।." मघात्रयोदशीश्राद्धे शास्त्रमृत्युमुपेयुषाम् ॥ २९ ॥ श्राद्धकालः प्रकथितो दैवयुक्तं च तद्भवेत् । मातामहश्राद्धविधिदौहित्रस्य प्रकीर्तितः ॥३०॥ एकोद्दिष्टं ततः प्रोक्तं त्रिविधं तत्मकीर्तितम् ।। मासिकश्राद्धसमया आद्यमासिकनिर्णयः ॥ ३१॥ तथोनमासिकादेश्च काला सर्व इहोदिताः। आहिताविशेषेण दाहाह आघमासिकम् ॥ ३२ ॥ इत्थं विस्तरमशः प्रोक्तं स्वकालेन्तरितस्य च ।: काळः प्रोक्तस्तथा प्रेतश्राद्ध आशिषवर्जनम् ॥ ३३॥ अथोदकुम्भश्राद्धं च सविशेष प्रकीर्तितम् । आमश्राद्धं ततः प्रोक्तं तनिमित्तानि चैव हि ॥ ३४ ॥ मासिकाब्दिकयोरामश्राद्धस्य च निषेधनम् । आमस्वरूपमुदितं परिमाणं तथैच ३६|| आपश्रादविधिः सर्वो हेमश्रादं तथैव हि । निषिद्धकालः सम्प्रोक्तः श्राद्धपिण्डदानयोः ।। ३६ ॥ श्रादापतर्पणं प्रोक्तं सविधातं ततः परम् । निषेधस्तिकयुक्तस्य तर्पणस्य प्रयोजितः ॥

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192