________________
सपुत्रयाविषयायतिभिरपितीर्थ श्राद्धंनकर्तव्यम् । १४३ __ अत्र पूर्वोक्ता प्रतिपत्तिर्न भवति सदाशब्दग्रहणात् । तीर्थ. श्राद्धं जीवपितृ केणापि कार्यमित्युक्तं जीवपितृकाधिकारविचारे प्राक् । तथा विभक्तभ्रातृणां युगपत्तीर्थप्राप्तौ ज्येष्ठ एव कुर्यात् । गयायां तु सर्वेऽविभक्ता अपि पृथक् पृथक् गयाश्राद्धमाचरेयुरित्यप्यभ्यधायि प्राविभक्ताभक्तनिर्णये । गयायां ज्येष्ठोऽपि कनिष्ठाय श्रापिण्डं दद्यात् । ___ गयायां च विशेषेण ज्यायानपि समाचरेत् ।
इति बौधायनोक्तः । अत्र गयापदं तीर्थमहालयादेरुपल. क्षकं स्मृत्यन्तरात् । यत्तु
न च माता न च पिता कुर्यात्पुत्रस्य पैतृकम् । ।
न चाग्रजश्व कुर्वीत भ्रातृणां च कनीयसाम् ॥ इति पितृकर्मणो ज्येष्ठानां निषेधः स कनिष्ठानां पुत्रायधि. कारिसद्भावे औ_देहिकनिषेधपरो बोध्यः । अन्यथा तत्रापि न । पूर्वोक्त - "उत्सनबान्धवम्" इति सुमन्तुवचनान्महादोष. श्रवणात् । श्राद्धमन्यद्वा सपुत्रा विधवा नैव कुर्यात् ।
सपुत्रया न कर्चव्यं भतुः श्राद्धं कदाचन । इति निषेधात् । यतिरपि न कुर्वीत--
न कुर्यात्सूतकं भिक्षुः श्रादापण्डोदकक्रियाम् । त्यक्तं सन्न्यासयोगेन गृहधर्मादिकं व्रतम् ॥
गोत्रादिचरणं सर्व पितृमातृकुलं धनम् । इति स्मृतेः । गयायां विशेषोवायवीये--
दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः ।
दण्डं स्पृष्ट्वा विष्णुपदे पितृभिः सह मुच्यते ॥ स्पृष्दैत्यन्तर्गतणिजर्थोऽयम् । स्पर्शयित्वेत्यर्थः। .